________________
धर्मसंग्रहे अधिकारः
गणानुयोगानुज्ञाधि.
॥१६५॥
तद्यथा-एष आचार्यपदे स्थापनीय इत्याचार्यस्यैव वचने दोषगुणी ज्ञात्वा स्थविराणां आचार्यपदस्थापने सूत्रे भजना श्रूयते, तथा च स्थविरानुमतिरेव दिगदाने प्रधानमिति सिद्धं, अत्र चेदं सूत्रं व्यवहारचतुर्थोद्देशके"आयरिअउवज्झाए गिलायमाणे अण्णयरं वइजा-अजो! मए णं कालगयंसि समाणंसि अयं समुक्कसिअन्वे, से अ समुक्कसणारिहे समुक्कसिअन्वे, से अ णो समुक्कसणारिहे णो समुक्कसिअन्वे, अत्थि अ इत्थ केइ अण्णे समुक्कसणारिहे से समुक्कसिअन्वे, णत्थि अ इत्थ केइ समुक्कसणारिहे से चेव समुक्कसिअन्वे, तंसि च णं समुकझुसि परो वइजा 'दुस्समुक्कडे अजो! णिक्खिवाहि' तस्स णं णिक्खिवमाणस्स अणिक्खिवमाणस्स वा णत्थि केह छेए वा परिहारिए वा, जे ते साहम्मिआ अहाकप्पेणं अब्भुट्टेति तेसिं तप्पत्तिए छेए वा परिहारे वा.' अस्यार्थ:
आचार्य उपाध्यायो वा धातुक्षोभादिना ग्लायन्नन्यतरमुपाध्यायप्रवर्तिगणावच्छेदकभिक्षूणामन्यतमं पूर्व कुत-| |श्चिद्धेतोरसमुत्कर्षितवान्, सापेक्षः सन् वदेद् आर्य! मयि कालगते सत्ययं 'समुत्कर्षयितव्यः' आचार्यपदे स्थापनीयः, स च परीक्ष्य समुत्कर्षणा) भवति ततः समुत्कर्षयितव्यः, अथ यदि गारवेच्छाऽसमाधिमरणभीत्युत्पादननिमित्तकगणदानानुमतिकत्वभिन्नदेशीयत्त्वपरुषभाषणादिभिर्हेतुभिः प्रागनुमतोऽपि गुरोर्न समुत्कर्षयितव्य इति ज्ञातः स न समुत्कर्षयितव्यः, यश्च पूर्व समीहितः सत्यपि मधुरत्वेऽसंग्रहशीलो वाचकत्वनिष्पादकत्वोभयगुणविकलश्च सोऽपि न स्थाप्यते, यदिवाऽऽचार्याणां सर्वेऽपि शिष्या अनिर्माता इति प्रातीच्छिकस्तैरन्तसमये स्थाप्यते, मम शिष्ये निर्मापिते त्वया गणधरपदं निक्षेप्तव्यमित्यभ्युपगमकारणपूर्वकं, यो वा
पवइजा दुवा .जेते साहाना ग्लायन्नन्य मयि कालगत अथ यदि गारव
सापेक्षः सन् व ततः समुत्कर्षयितव्य हेतुभिः प्रागनुमतशीलो वाचकत्व
॥१६५॥
Jain Education Intl
For Private & Personel Use Only
totww.jainelibrary.org