________________
निर्मातः स्खशिष्योऽनिर्माते बहुभागे शिष्यान्तरे तत्र निर्मापिते उक्ताभ्युपगमकारणपूर्वकं स्थाप्यते, एतयोर्द्वयोः प्रतिज्ञासमाप्तौ गणधरपदमनिक्षेपतश्छेदः परिहारः सप्तरात्रं वा तप इति प्रासंगिकं प्रतिपत्तव्यं, अथ य आचार्येण समुत्कर्षयितव्यतयोक्तः, स च कालगते आचार्येऽभ्युद्यतविहारमभ्युद्यतमरणं वा प्रतिपत्तुमुत्स-1
हते, तदाऽस्ति चेदत्र गच्छेऽन्यः कश्चित्समुत्कर्षणार्हः, स समुत्कर्षयितव्यः, नास्ति चेदन्यः समुत्कर्षणाह18| स्तदा गीताथै ः यावद्गीतार्थनिर्मापणं गणधरपदं पालयत यूयं, तस्मिन्निर्मापिते च सति भवतां यत् प्रतिभासते
तत् कुरुत' इत्यभ्यर्थनापुरःसरं स एव समुत्कर्षयितव्यः, एवमुक्ते गणधरपदं प्रतिपद्य कश्चिदेको निर्मापितः पश्चात्तस्य चित्तं जातं 'अभ्युद्यतविहाराद्गच्छपरिपालनं विपुलतरनिर्जराद्वारं' इत्थं व्यवसिते तत्र गीतार्था ब्रुवते-निक्षिप गणधरपदं' स प्राह-'न निक्षिपामि, किन्विच्छामि गच्छं पालयितुमिति एवमुक्त क्षुभ्यन्तो वदंति ये दुःसमुत्कृष्टं तव गणधरपदं तव रुचितमेतत्परं त्वस्माकंन रोचत इति, तेषां चत्वारो गुरुकाः, अनिर्मा|पिते गणधरत्वं निक्षिपत्यपि त एव, अगीतार्थत्वेन गच्छसाधवो यत्सेविष्यन्ते तदपि चाधिकं, निर्मापिते च तत्र निक्षिपतो न छेदः परिहारो वा सप्तरात्रं वा तपः, ये तु खगच्छसाधवस्तं स्वगच्छसाधुं प्रातीछिकं च पूर्वस्थापितं यथाकल्पेन कृतिकर्मादिना नाभ्युपतिष्ठन्ते तेषामपि छेदः परिहारो वा सप्तरात्रं वा तप इति संक्षेपः। नन्वेवं गुरुदत्ताया दिशो गीताफरपहरणे गुर्वाज्ञाभङ्गः इति चेन्मैवं, प्रकृते भावानुज्ञाया एव ग्रहणात्, भावमपेक्ष्येव गुरुणा दिग्दानात्, तदभावे गुर्वाज्ञाया एव तत्राभावात्, किंच-दुष्टस्य सतस्त्यागः कर्त्तव्यः एषापि
Jain Education Intel
For Private & Personel Use Only
Oww.jainelibrary.org