________________
अधिकारः
ज्ञाधि०
॥१६६॥
हन्त गुर्वाज्ञैवेति दुर्व्यवहारे दिगनपहार एव गुर्वाज्ञाभङ्गः स्यात्, यदपि च महानिशीथे कुगुरोः सङ्घबाह्य-18 गणानुकरणमुक्तं तदपि कथं दिगपहारं विना घटते, अतो गुरोर्भगवतश्चैकैवेयमाज्ञेति स्थितं । कुगुरोः सङ्घबाह्य- योगानुकरणालापकस्त्वनुपदमेव व्यक्तीभविष्यति, शुद्धगीतार्थश्च स ज्ञेयः य उत्पन्ने कार्ये न मायी न मृषावादी नाशुचिर्न पापश्रुतोपजीवी च, तादृशदोषप्रत्ययं हि तस्याचार्यत्वादिदानं यावजीवमेव सूत्रे निषिद्धं, तथा च व्यवहारस्थं सूत्रसप्तकम्-"भिक्खू अबहुस्सुए बज्झागमे बहुसु आगाढागासु कारणेसु माई मुसावाई असुई पावसुओवजीवी जावजीवाए तस्स तप्पत्ति णो कप्पइ आयरिअत्तं वा जाव गणावछेइअत्तं वा उद्दिसित्तए । एवं गणावच्छेइएवि, आयरिअउवज्झाएवि । बहवे भिक्खुणो बहवे गणावच्छेइआ बहवे आयरिअउवज्झाया बहुस्सुआ बझागमा बहुसु आगाढागाढेसु कारणेसु माई मुसाबाई असुई पावसुओवजीवी जावजीवं एतेसिं तप्पत्तिअंणो कप्पइ आयरिअत्तं वा (उवज्झायत्तं वा) पवित्तित्तं वा गणहरत्तं वा गणावच्छेइअत्तं वा उद्दिसित्त
"त्ति । अत्र प्रत्येकमेकत्वे सूत्रत्रयं प्रथम, बहुत्वे द्वितीयं सूत्रत्रयं, सप्तमं च सूत्रं बहुभिक्षुबहुगणावच्छेदकबहाचार्यविषयं, तत्र 'शतमवध्यं सहस्रमदण्ड्य' मित्यादिलौकिकव्यवहारवबहूनां प्रायश्चित्तं न स्यादितिव्यावृ-18 त्यर्थ बहुत्वविशिष्टसूत्रग्रहणमिति वदन्ति । तथा गीतार्थत्वगुणवत्सारणागुणोऽप्यवश्यमपेक्षितो यतो गुणवान् ? गीतार्थोऽप्याचार्यो यदि गच्छसारणां न करोति दुष्टशिष्यांश्च न त्यजति तदा तस्य महाप्रायश्चित्तं, यत उक्तं महानिशीथे-"से भयवं! जेणं गणी अप्पमाई भवित्ता णं मुआणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसंश
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org