Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 345
________________ सोही ॥१४॥ एवं आयरिआई, चउदसपुत्वादि आसि पुर्वि तु। इहि जुग्गणुरूवा, आयरिआहुति णायवा॥१५॥" कालोचितगुणेष्वपि गीतार्थत्वगुणः सारकत्वगुणश्च तावदवश्यमपेक्षितः, यत उक्तम्-“कालाइवसा इक्काइगुणविहीणोऽवि सुद्धगीअत्थो । ठाविजइ सूरिपए, उज्जुत्तो सारणाइसुं ॥१॥"ति ॥ युक्तं चैतद्यतो गीतार्थाभ्यु| पगमानभ्युपगमाभ्यामेव गुरुणा दत्ताया अदत्ताया वापि आचार्यत्वादिरूपाया दिशोऽवस्थानाऽनवस्थाने सूत्रे व्यवस्थिते, तथा च व्यवहारभाष्यम्-आसुक्कारोवरए, अठाविए गणहरे इमा मेरा । चिलिमिलिहत्थाणुन्ना, परि-19 भवसुत्तत्यहावणया ॥१॥ अस्या अर्थ:-आशुकारेण-शूलादिनोपरत:-कालगतः आशुकारोपरतस्तस्मिन् सत्याचार्येऽस्थापितेऽन्यस्मिन् गणधरे इयं-वक्ष्यमाणा मेरा-मर्यादा, तामेवाह-चिलिमिली'त्यादि आशुकारोपरत आचार्यो यवनिकान्तरितः प्रच्छन्नः कार्यो, वक्तव्यं आचार्याणामतीवाशुभं शरीरंवाचापि वक्तुं न शक्नुवंतीति, ततो यो गणधरपदार्हस्तं यवनिकाया बहिः स्थापयित्वा सूरयो भण्यन्ते को गणधरः स्थाप्यतां?' एवं चोक्त्वा यवनिकान्तरस्था गीतार्था आचार्यहस्तं उपर्युन्मुखं कृत्वा स्थाप्यमानगणधराभिमुखं दर्शयन्ति, वदन्ति च 'गणधरत्वमेतस्यानुज्ञातं, परं वाचा न वक्तुं शक्नुवन्ति' एषा हस्तानुज्ञा, तत एतस्योपरि वासा निक्षिप्यन्त, स्थापित एष गणधर इति, पश्चात् कालगता आचार्या इति प्रकाश्यते । परिभवसुत्तत्थहावणया' इति ततो येऽभिनवस्थापिताचार्यस्य परिभवोत्पादनबुद्ध्याऽऽचार्योंचितं विनयं न कुर्वन्ति तेषां सूत्रमर्थ वा हापयति, न, ददातीत्यर्थः । अत्र हि परमार्थतो गुर्वदत्तापि स्थविरैरेव दिग दत्तेति । अथ गुरुदत्तापि नाङ्गीक्रियते गीतार्थः For Private Personal Use Only N w Jain Education Inter .jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398