________________
णसंज्वलनकोपकरणं ९, सुदीर्घकोपः १०, परावर्णवदनं ११, अभीक्ष्णं चौरस्त्वमित्यादिभाषणं १२, उपशान्ता18|धिकरणोदीरणं १३, अकाले खाध्यायकरणं १४, सरजस्कपाणिपादत्वं १५, रात्र्यादावुच्चैः शब्दकरणं १६, कल
हकरणं १७, झंझाकरणं, झंझा गणभेदः १८, सूरप्रमाणभोजित्वं १९, अनेषणासमितत्वं २० । 'एकविंशत्या शबलैः' चारित्रस्य शबलता-कल्मषता तन्निमित्तानि क्रियाविशेषाः शबलास्तैः, ते चामी-करकर्मकरणं १, अतिक्रमव्यतिक्रमातिचारैर्दिव्यादित्रिविधमैथुनसेवनं २, दिवागृहीतं दिवाभुक्तमित्यादिचतुर्भङ्गयामतिक्रमादिना रात्री भोजनं, सालम्बने पुनर्यतना, सन्निध्यादिष्वप्रतिसेवा ३, एवमाधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ऽभ्याहृता ८ ऽऽच्छेद्य ९ प्रत्याख्यातद्रव्यभोजनं १० षण्मासान्तर्गणाद्गणान्तरसंक्रमोऽन्यत्र ज्ञानाद्यर्थात् ११, मासान्त-19 स्त्रिर्दकलेपकरणं, “जङ्घद्धा संघहो, नाभी लेवो परेण लेवुवरि" १२, मासान्तस्त्रिातृस्थानकरणं, मातृस्थानं चानाचरणीयस्याऽऽचार्यत्रपावशात् प्रच्छादनं १३, आकुट्या सकृतिस्त्रिा हरिताङ्करादित्रोटनादिप्राणातिपात१४ मृषावादा १५ऽदत्तादानासेवनं १६ आकुट्याऽनन्तरितायां सस्निग्धायां साण्डायां सप्राणायां सबीजायां च भूमौ सचित्तशिलाघुणक्षतकाष्ठादौ च स्थानं १७, आकुट्या मूलकन्दपुष्पफलहरितभोजनं १८, वर्षान्तर्दशदकलेपकरणं १९, वर्षान्तर्दशमातृस्थानकरणं २०, सचित्तोदकागलद्विन्दुहस्तमात्रकस्य दातुः पार्थाद्भक्ताद्यांदाय भोजनं २१ । 'द्वाविंशत्या परीषहै' वक्ष्यमाणखरूपैः 'त्रयोविंशत्या सूत्रकृताध्ययनैः द्वितीयाङ्गाध्ययन तानि च षोडश प्रथमश्रुतस्कन्धे द्वितीयश्रुतस्कन्धे तु पुण्डरीकं १ क्रियास्थान २ माहारपरिज्ञा ३ प्रत्याख्यान
Jain Education in
For Private Personal use only
4
jainelibrary.org