________________
Jain Education Inte
संजमो होइ ॥ १ ॥ तथोच्चारादिकं भक्तपानादिकं वा प्राणिसंसक्तमशुद्धमनुपकारकं च जन्तुरहिते स्थाने विधिना परिष्ठापयतः परिष्ठापना संयमः । तथा मनसो द्रोहेर्ष्याभिमानादिभ्यो निवृत्तिर्द्धर्मध्यानादिषु च प्रवृत्तिर्मनः संयमः । तथा वाचो हिंस्रपरुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वाक्संयमः । तथा गमनागमनादिष्ववश्यकरणीयेषु | सोपयोगं कायं व्यापारयतः कायसंयमः । इत्येवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूपः संयमो भवति । तथा व्यापिपर्त्ति स्म व्यापृतस्तस्य भावो वैयावृत्त्यं, आचार्योपाध्यायतपखिशैक्षकग्लानसाधुसमनोज्ञसङ्घकुलगणरूपविषयभेदादशविधं, यतः - "आयरिअडवज्ज्ञाए, तबस्सिसेहे गिलाणसाहूसु । समणुन्नसंघकुलगण वेआवचं | हवइ दसहा ॥ १ ॥” पञ्चविधे आचारे साधुः आचर्यते सेव्यते वा आचार्यः, स च पञ्चधा-प्रब्राजकाचार्य: १, सचित्ताचित्तमिश्रानुज्ञायी दिगाचार्यः २, प्रथमत एव श्रुतमुद्दिशति यः स उद्देशाचार्य: ३, उद्देष्टगुर्वभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स समुद्देशानुज्ञाचार्यः ४, आम्नायम् - उत्सर्गापवादलक्षणमर्थं वक्ति यः स प्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी आम्नायार्थवाचकः ५, १, आचारगोचरविषयं स्वाध्यायमाचार्य| लब्धानुज्ञाः साधव उप-समीपेऽधीयन्तेऽस्मात्स उपाध्यायः २, तपो विकृष्टरूपं विद्यते यस्य स तपखी ३, | नवतरदीक्षितः शिक्षाहः शैक्षः४, ग्लानो ज्वराद्याक्रान्तः साधुः ५, थेरो - स्थविरः स च श्रुतपर्यायवयो भेदात्रिविधः, श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थविरः सप्तत्या - | दिवर्षजीवितः ६, समनोज्ञ एकसामाचारीसमाचरणपरः, ७ सङ्घः श्रमणश्रमणीश्रमणोपासकश्रमणोपासिकास
For Private & Personal Use Only
w.jainelibrary.org