Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 294
________________ प्रायश्चित्तस्वरूपम् -श्लो० १२७॥] [७२३ तत् तद् ज्ञेयमासेवनीयं च, इदं च सचित्तपृथिव्यादिसंघट्टने निर्विकृतिकादि षण्मासान्तं भवति ६। __ छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् , तपोदुर्दमश्च विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति, यथा किं ममानेन प्रभूतेनापि तपसा ? इति, अथवा तपःकरणासमर्थस्य ग्लानादेनिष्कारणतोऽपवादरुचेर्वा ७/ तथा मूलं महाव्रतानां मूलत आरोपणम् , इदं चाकुट्ट्या पञ्चेन्द्रियवधे विहिते दर्पण मैथुने सेविते मृषावादादत्तादानपरिग्रहेषु चोत्कृष्टेषु प्रतिसेवितेषु आकुट्ट्या पुनः पुनः सेवितेषु वा भवति । तथाऽवस्थाप्यत इत्यवस्थाप्यं तन्निषेधादनवस्थाप्यम् , दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणम् , तपःकर्म चास्योत्थाननिषीदनादिकर्मकरणाशक्तिपर्यन्तम् , स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते-आर्या ! उत्थातुमिच्छामीत्यादि, ते तु तेन सह संभाषणमकुर्वाणास्तत् कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियते, इदं च यष्टिमुष्ट्यादिभिः स्वस्य परस्य वा निरपेक्षघातकरणेनातिसंक्लिष्टाध्यवसायस्य भवति ९।। तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति - गच्छतीत्वेवंशीलं पाराञ्चिकम् , तच्च स्वलिङ्गिनीनृपभार्यासेवनलिङ्गिराजवधादिमहापराधे कुलगणसङ्ग्रेभ्यो बहिष्करणं जघन्यतः षण्मासानुत्कृष्टतो द्वादश वर्षाणि यावद् भवति, ततश्चातिचारपारगमनानन्तरं प्रव्राज्यते नान्यथा १०। ___एतदधिकारिणश्चाव्यक्तलिङ्गधारिणो जिनकल्पिकप्रतिरूपाः क्षेत्राद्वहि:स्थिताः सुविपुलं तपः कुर्वन्ति आचार्या एव, उपाध्यायानां तु दशमप्रायश्चित्तापत्तावपि अनवस्थाप्यमेव भवति, न तु पाराञ्चिकम् , एवं सामान्यसाधूनामनवस्थाप्यपाराञ्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यम् । अनवस्थाप्यं चाशातनानवस्थाप्य-प्रतिसेवनानवस्थाप्यभेदाद् द्विविधम् , तत्राद्यं तीर्थकरतद्वचनगणधराद्यधिक्षेपणकरणे जघन्यतः षण्मासानुत्कृष्टतो वर्षं भवति, द्वितीयं तु हस्तताडनसार्मिकान्यधार्मिकस्तैन्यादिकरणे जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणीति । उक्तं च -"तत्थ आसायणाअणवठ्ठप्पो जहन्नेण छम्मासा उक्कोसेणं संवच्छरं, पडिसेवणाअणवटुप्पो जहण्णेणं बारस मासा, उक्कोसेणं १. णादिश° L.P. || D:\new/d-3.pm5\3rd proof

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446