________________
प्रायश्चित्तस्वरूपम् -श्लो० १२७॥]
[७२३ तत् तद् ज्ञेयमासेवनीयं च, इदं च सचित्तपृथिव्यादिसंघट्टने निर्विकृतिकादि षण्मासान्तं भवति ६। __ छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् , तपोदुर्दमश्च विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति, यथा किं ममानेन प्रभूतेनापि तपसा ? इति, अथवा तपःकरणासमर्थस्य ग्लानादेनिष्कारणतोऽपवादरुचेर्वा ७/
तथा मूलं महाव्रतानां मूलत आरोपणम् , इदं चाकुट्ट्या पञ्चेन्द्रियवधे विहिते दर्पण मैथुने सेविते मृषावादादत्तादानपरिग्रहेषु चोत्कृष्टेषु प्रतिसेवितेषु आकुट्ट्या पुनः पुनः सेवितेषु वा भवति ।
तथाऽवस्थाप्यत इत्यवस्थाप्यं तन्निषेधादनवस्थाप्यम् , दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणम् , तपःकर्म चास्योत्थाननिषीदनादिकर्मकरणाशक्तिपर्यन्तम् , स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते-आर्या ! उत्थातुमिच्छामीत्यादि, ते तु तेन सह संभाषणमकुर्वाणास्तत् कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियते, इदं च यष्टिमुष्ट्यादिभिः स्वस्य परस्य वा निरपेक्षघातकरणेनातिसंक्लिष्टाध्यवसायस्य भवति ९।।
तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति - गच्छतीत्वेवंशीलं पाराञ्चिकम् , तच्च स्वलिङ्गिनीनृपभार्यासेवनलिङ्गिराजवधादिमहापराधे कुलगणसङ्ग्रेभ्यो बहिष्करणं जघन्यतः षण्मासानुत्कृष्टतो द्वादश वर्षाणि यावद् भवति, ततश्चातिचारपारगमनानन्तरं प्रव्राज्यते नान्यथा १०। ___एतदधिकारिणश्चाव्यक्तलिङ्गधारिणो जिनकल्पिकप्रतिरूपाः क्षेत्राद्वहि:स्थिताः सुविपुलं तपः कुर्वन्ति आचार्या एव, उपाध्यायानां तु दशमप्रायश्चित्तापत्तावपि अनवस्थाप्यमेव भवति, न तु पाराञ्चिकम् , एवं सामान्यसाधूनामनवस्थाप्यपाराञ्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यम् । अनवस्थाप्यं चाशातनानवस्थाप्य-प्रतिसेवनानवस्थाप्यभेदाद् द्विविधम् , तत्राद्यं तीर्थकरतद्वचनगणधराद्यधिक्षेपणकरणे जघन्यतः षण्मासानुत्कृष्टतो वर्षं भवति, द्वितीयं तु हस्तताडनसार्मिकान्यधार्मिकस्तैन्यादिकरणे जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणीति । उक्तं च -"तत्थ आसायणाअणवठ्ठप्पो जहन्नेण छम्मासा उक्कोसेणं संवच्छरं, पडिसेवणाअणवटुप्पो जहण्णेणं बारस मासा, उक्कोसेणं
१. णादिश° L.P. ||
D:\new/d-3.pm5\3rd proof