________________
७२२]
[धर्मसंग्रहः-तृतीयोऽधिकारः यतः- “निग्गंथसिणायाणं, पुलायसहिआण तिण्ह वोच्छेओ।
समणा बउसकुसीला, जा तित्थं ताव होंहिति" ॥१॥[ प्रव./७३० ] इति । इति प्रसङ्गप्राप्तं पञ्चनिर्ग्रन्थीस्वरूपम् ।।
अथ प्रायश्चित्तं पुनर्दशविधम् -आलोचनं १ प्रतिक्रमणं २ मिश्रं ३ विवेको ४ व्युत्सर्ग ५ स्तप ६ श्छेदो ७ मूल ८ मनवस्थाप्यता ९ पाराञ्चिक १० मिति । यदाह -
"आलोअणपडिक्कमणे, मीसविवेगे तहा विउस्सग्गे। तवछेअमूलअणवट्ठया य पारंचि चेव" ॥१॥
[आव.नि.१४१८, पञ्चा.१६।२, प्रव.७५०, व्य.भा.५३ ] इति । तत्रालोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम् , तच्चासेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च, तत्स्वरूपं तु प्रागुक्तमेव । इयं चालोचना गोचरचरीविहारोच्चारभूम्यादिविषयेषु हस्तशतादूर्ध्वं गमनागमनादिष्ववश्यकर्त्तव्येषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तयतेष्टव्या, सातिचारस्य तपरितनप्रायश्चित्तसम्भवात , केवलिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् , ननु यथासूत्रं प्रवर्त्तमानानामप्रमत्तयतीनामतिचाररहितानामालोचना निष्फलेति चेत् , सत्यम् , परं केवलचेष्टानिमित्तानां सूक्ष्मप्रमादनिमित्तानां वा सूक्ष्माश्रवक्रियाणां सम्भवात् तेषां तच्छुद्धिनिमित्तमालोचना सफलैवेति १॥
तथाऽतिचाराभिमुख्यपरिहारेण प्रतीपं क्रमणमपसरणं प्रतिक्रमणम् , मिथ्यादुष्कृतसंप्रयुक्तेन पश्चात्तापेन पुनरेवं न करिष्यामीति प्रत्याख्यानम् , एतच्च समितिगुप्त्यादीनां सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सति मिथ्याकरणे गुरोः पुरतः आलोचनामन्तरेणापि मिथ्यादुष्कृतलक्षणं प्रायश्चित्तं क्रियते २।
तथा मिश्रमालोचनप्रतिक्रमणरूपम् , प्रागालोचनं पश्चाद् गुरुसंदिष्टेन प्रतिक्रमणम् , इदं च शब्दादिविषयेषु रागादिकरणेन क्रियते, तत्रापि शब्दादिविषयेषु रागद्वेषयोर्वा शङ्कायां सत्यां मिश्रम् , तन्निश्चये तु तपः प्रायश्चित्तमिति ३।
तथा विवेकः संसक्तान्नपानोपकरणशय्यादिविषयस्त्यागः, अयं च सम्यगुपयुक्तेनापि गृहीतं पश्चात् तु अन्नाद्यशुद्धं ज्ञातं तदा कार्यः, उपलक्षणत्वात् क्षेत्रातिक्रान्तादावपि कार्यः ४/
तथा व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमनसावधस्वप्नदर्शननौसंतरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वककायवाङ्मनोव्यापारत्यागः ५। __ तपस्तु छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित् तपसा विशुद्धिर्भवति
D:\new/d-3.pm5\3rd proof