________________
पञ्चनिर्ग्रन्थीस्वरूपम् -श्लो० १२७॥]
[७२१ चारित्रमस्येति, स चासेवनाकषायकुशीलभेदाद् द्विधा, तत्रासेवना संयमस्य विपरीताऽऽचरणा तया कुशील आसेवनाकुशील द्वितीयस्तु स्पष्टार्थ एव । द्विविधोऽपि ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् पञ्चविधो । यतः - "आसेवणाकसाए दुविहो कुसीलो दुहा वि पंचविहो । नाणे दंसण चरणे, तवे अ अहसुहुमए चेव" ॥१॥[पञ्चनि./२३, प्रव.७२५ ] इति ।
तत्र ज्ञानदर्शनचारित्रतपांस्युपजीवन् तत्तत्प्रतिसेवकः । अन्ये तु तप:स्थाने लिङ्गं पठन्ति, अयं तपस्वीत्यादिप्रशंसया तुष्टस्तु यथासूक्ष्मप्रतिसेवकः । एवं कषायकुशीलोऽपि पञ्चविधः, तत्र ज्ञानदर्शनतपांसि संज्वलनक्रोधाधुपयुक्तो यः स्वस्वविषये व्यापारयति, तत्तत्कषायकुशील उच्यते, कस्यापि शापं प्रयच्छति स तु चारित्रकुशीलः, मनसा त द्वेषादीन कर्वन यथासक्ष्मः कषायकशीलः ।
तथा निर्गतो मोहनीयकर्मलक्षणात् ग्रन्थादिति निर्ग्रन्थः, स च द्विधा -उपशान्तमोह: क्षीणमोहश्चेति, द्विविधोऽपि पञ्चविधस्तद्यथा -प्रथमसमयनिर्ग्रन्थोऽप्रथमसमयनिर्ग्रन्थश्चरमसमयनिर्ग्रन्थोऽचरमसमयनिर्ग्रन्थो यथासूक्ष्मनिर्ग्रन्थश्चेति । यतः - "उवसामगो अ खवगो, दुहा निअंठो दुहावि पंचविहो । पढमसमओ १ अपढमो २ चरमा ३ चरमो ४ तहा सहुमो ५" ॥१॥
___ [पञ्चनि./२९, प्रव.७२६] इति । तत्र भेदचतुष्कं प्रकटार्थमेव, यः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानः स यथासूक्ष्मनिर्ग्रन्थ इति विवक्षया भेद एषामिति । क्षीणमोहाश्चैकसमये प्रवेशमाश्रित्योत्कर्षतोऽष्टोत्तरशतमिताः, जघन्यतश्चैकादयः, उपशान्तमोहास्तूत्कर्षतश्चतुष्पञ्चाशत् , जघन्यतश्चैकादय एव, नानासमयप्रविष्टानाश्रित्य चाद्याः शतपृथक्त्वमिता, द्वितीयास्तु संख्याताः प्राप्यन्ते इति । ___ तथा क्षालितसकलघातिकर्ममलत्वात् स्नात इव स्नातः, स एव स्नातकः, स च सयोगी अयोगी चेति द्विविधः । तदुक्तम् - "सुहझाणजलविसुद्धो, कम्ममलाविक्खया सिणाओ त्ति। दुविहो असो सजोगी, तथा अजोगी विणिद्दिट्ठो"॥१॥[पञ्चनि./३२, प्रव.७२८ ] इति। एषु च निर्ग्रन्थस्नातकपुलाका व्युच्छिन्ना, बकुशकुशीलाश्चातीर्थं भविष्यन्ति ।
१. L.P. | यः स-मु० C. ||
D:\new/d-3.pm5\3rd proof