________________
७२०]
[धर्मसंग्रहः-तृतीयोऽधिकार: "संघाइआण कज्जे, चुण्णेज्जा चक्कवट्टिसेन्नमवि ।
जीएँ लद्धी' जुओ, लद्धिपुलाओ मुणेअव्वो" ॥१॥[ पञ्चनि./७] अन्ये त्वाहुः-आसेवनातो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति । आसेवापुलाकस्तु ज्ञानदर्शनचारित्रलिङ्गसूक्ष्मपुलाकभेदात् पञ्चधा, तत्र स्खलितमिलितादिभिरतिचारैनिमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिषेवणया चारित्रविराधनतश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणान्निष्कारणान्यालिङ्गकरणाद्वा लिङ्गपुलाकः, किञ्चित् प्रमादात् मनसाऽकल्पग्रहणाद्वा यथासूक्ष्मपुलाकः । अन्यत्र पुनरेवमुक्तम् -
"अहासुहुमो अ एएसुं चेव चउसु वि जो थोवथोवं विराहे"[ ] इति ।
बकुशः शबलः कर्बुर इति पर्यायाः, सातिचारत्वादेवम्भूतः संयमोऽत्र बकुशः तत्संयमयोगात् साधुरपि बकुशः, सातिचारत्वात् शुद्ध्यशुद्धिव्यतिकीर्णचरण इत्यर्थः, स च द्विविधः -उपकरणशरीरविषयभेदात् , तत्राकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्चोक्षवास:प्रियः पात्रदण्डकाद्यपि विभूषार्थं तैलमात्रया उज्ज्वलीकृत्य धारयन्नुपकरणबकुशः, तथा अनागुप्तव्यतिरेकेण हस्तपादधावनमलापनयनादि देहविभूषार्थमाचरन् शरीरबकुशः, अयं च द्विविधोऽपि आभोगाऽनाभोगसंवृताऽसंवृतसूक्ष्मबकुशभेदात् पञ्चविधो । यतः - "उवगरणसरीरेसुं , बउसो दुविहो दुहावि पंचविहो । आभोगअणाभोगे, संवुडअस्संवुडे सुहुमे" ॥१॥[पञ्चनि./१३, प्रव.७२४] इति ।
तत्राभोग: पूर्वोक्तद्विविधभूषणमकृत्यमित्येवम्भूतं ज्ञानं तत्प्रधानो बकुश आभोगबकुश: १, द्विविधविभूषणस्य च सहसाकारी अनाभोगबकुशः २, संवृतो लोकेऽविज्ञातदोषः संवृतबकुशः ३, प्रकटकारी त्वसंवृतबकुशः ४, मूलोत्तरगुणाश्रितं वा संवृताऽसंवृतत्वम् , नेत्रमलापनयनादिकिञ्चित्प्रमादवान् सूक्ष्मबकुशः ५। एते च सामान्येन ऋद्धियशस्कामाः मानगौरवाश्रिता अविविक्तपरिवाराश्छेदयोग्यशबलचारित्रा अवगन्तव्याः, तत्राऽविविक्तोऽसंयमादपृथग्भूतः समुद्रफेनादिना निघृष्टजङ्घः तैलादिना विहितशरीरमृजः कतरिकाकल्पितकेशः स परिवारो येषां तेऽविविक्तपरिवारा इति ।
तथा कशीलो मलोत्तरगणविराधनात संज्वलनकषायोदयाद्वा कत्सितं शीलं -
१. L.P. प्रवचनसारोद्धारवृत्तौ च । न्यालिङ्गकरणा मु० C. नास्ति ॥ २. तुला-पञ्चनिर्ग्रन्थीप्र० गा० १२-२२, स्थानाङ्गवृत्तिः प० ३३६, तत्त्वार्थसिद्धसेनीया वृत्तिः ९।४८॥ ३. गुण मु० C. नास्ति, L.P. प्रवचनसारोद्धारवृत्तावस्ति गा० ७२५ । तुला-पञ्चनिर्ग्रन्थीप्र० गा० २२-२८, तत्त्वार्थसिद्धसेनीया वृत्तिः ९।४८, स्थानाङ्गवृत्तिः प० ३३६ तः ॥
D:\new/d-3.pm53rd proof