________________
पञ्चानिर्ग्रन्थीस्वरूपम् -श्लो० १२७॥]
[७१९ "सज्झायाइस्संतो, तित्थस्स कुलाणुरूवधम्माणं । कुज्जा कहं जईणं, संवेगविवड्डणिं विहिणा" ॥१॥[पञ्च./९०२ ] इति । एवं च क्रियमाणे आत्मनः परेषामपि च स्थिरतादयो गुणा: स्पष्टा एवेति॥१२६॥ तथा –
अतिचारालोचनेन, प्रायश्चित्तविधेयता।
उपसर्गतितिक्षा च, परीषहजयस्तथा ॥१२७॥ 'अतिचारा' मूलोत्तरगुणविषयाः प्रागुक्ता ज्ञानादीनां च तदाचारविपरीतभूतास्तेषाम् 'आलोचनं' गुरोः पुरतः प्रकाशनं तेन' तत्पूर्वकं प्रायश्चित्तानाम्'आलोचनप्रतिक्रमणादीनाम् गुरुदत्तानां 'विधेयता' विधानम् , आलोचनाविधिश्च श्राद्धधर्माधिकारे उक्त एव । अत्र मूलगुणप्रतिसेवकाः पुलाकप्रतिसेवाकुशीला:, उत्तरगुणप्रतिसेवकास्तु पुलाकप्रतिसेवनाकुशीलबकुशाः, शेषास्त्वप्रतिसेवका एव । आह च - "मूलोत्तरगुणविसया, पडिसेवासेवए पुलाए अ । उत्तरगुणेसु बउसो सेसा पडिसेवणारहिआ" ॥१॥ [ पञ्चनि.४१, प्रव.७२९ ] इति । __ अत्र प्रसङ्गेन पुलाकादिनिर्ग्रन्थस्वरूपमुच्यते - "मिच्छत्तं वेअतिगं, हासाईछक्कगं च णायव्वं ।
कोहाईण चउक्कं, चउदस अभितरा गंथी" ॥१॥ [ प्रव.७२१] इतिस्वरूपादभ्यन्तराद्धनादेश्च बाह्याद् ग्रन्थान्निर्गता निर्ग्रन्थाः –साधवस्ते च पञ्चविधाः । यतः - "पंच निअंठा भणिआ, पुलाय १ बउसा २ कुसील ३ निग्गंथा ४ । होइ सिणाओ अतहा, इक्किक्को सो भवे दुविहो"॥१॥[ प्रव.७१९, पञ्चनि.४] इति।
सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्याद् भेदोऽवगन्तव्यः, तत्र पुलाकोऽसारं धान्यं तण्डुलशून्यं पलञ्जिरूपं तेन सदृशं चारित्रं यस्य साधोः सोऽपि पुलाकः, पुलाक इव पुलाक इति व्युत्पत्तेः । अयमर्थः -तपः श्रुतहेतुकायाः सङ्घादिप्रयोजने सबलवाहनस्य चक्रवर्त्यादेरपि चूर्णनसमर्थाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन सकलसंयमसारगलनात् पलञ्जिवन्निःसारो यः स पुलाकः, स च लब्ध्या सेवया चेति द्विधा भवति । तत्र लब्धिपुलाको देवेन्द्रसमृद्धको लब्धिविशेषयुक्तः । यदाह -
१. तुला-प्रवचनसारोद्धारटीका भा० १ प० ६११ तः ॥ २. तुला-स्थानाङ्गवृत्तिः प० ३३६, प्रवचनसारोद्धारटीका गा० ७२३ ।। ३. तुला-भगवतीसूत्रवृत्तिः सू० ७५१ प० ८९२ ।।
D:\new/d-3.pm53rd proof