SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ७१८] [धर्मसंग्रह:-तृतीयोऽधिकारः प्रश्रवणपात्रधावनादिभूमिं दर्शयन्ति, अर्पयन्ति च संस्तारकभूमीस्तिस्रो गुरूणां शिष्याणां च यथारत्नाधिकतयैकैकाम् , तैरपि स्वस्वविण्टिकोत्क्षेप्या, तथा क्षपकान् प्रविशतश्चैत्यानि वन्दमानानेव स्थापनाकुलानि दर्शयन्ति, भक्तार्थिनस्तु द्वित्रा उद्ग्राहितपात्राः शेषाश्चानुद्ग्राहितपात्राः सूरिभिः समं चैत्यानि वन्दन्ते, गृहचैत्यानि वन्दनार्थं तु गता गुरवः कतिपयैरेव साधुभिरुद्ग्राहितपात्रकैः समं यान्ति, निमन्त्रिताश्च भक्तपानं गृह्णन्ति, तत्र प्रागुक्तानि दानादिकुलानि क्षेत्रप्रत्युपेक्षका दर्शयन्ति, दृष्ट्वा च गुरव उपाश्रये आगता ईर्यापथिकीकायोत्सर्गानन्तरं सर्वान् साधूनाकार्य तानि कुलानि व्यवस्थापयन्ति, यदुताभिग्रहिकमिथ्यात्वमामकाऽप्रीतिकेषु न प्रवेष्टव्यम् , यानि च दानश्राद्धादीनि तेषु एकेनैव गीतार्थसंघाटकेन गुर्वादिवैयावृत्त्यकरेण प्रविष्टव्यम् , तेनापि गुरुप्राघूर्णिकाद्यर्थम् , न तु सर्वदा निष्कारणं च, न च सर्वथाऽप्रवेशोऽपि कार्यः, गोऽदोहनपुष्पानवचनदृष्टान्तेन दानप्रवृत्तिविच्छेदात् , तत्रासञ्चयिकं स्थापनाकुलेषु प्रभूतं ज्ञात्वा ग्राह्यम् , सञ्चयिकं पुनर्लानप्राघूर्णकादिकार्ये महति उत्पन्ने ग्राह्यम् , महानिर्बन्धे तु प्रागुक्तकार्यमन्तरापि, परं सान्तरितम् , न पुनः प्रत्यहम् , इत्येष सञ्चयिकग्रहणस्यापवादः । अथापवादस्याप्यपवादो यथा श्राद्धस्य तीव्रा दानरुचिः तद्गृहे विपुलं च द्रव्यं दुर्भिक्षादिकं कालं ग्लानत्वादिकं भावं बालवृद्धादयो वा आप्यायिता भवन्त्विति च ज्ञात्वा सञ्चयिकस्यापि निरन्तरं ग्रहणं कर्त्तव्यम् , यावच्च दायकभावो न व्यवच्छिद्यते इति संक्षेपतो विहारविधिस्वरूपम् ।६ ____ तथा 'महामुनिचरित्राणाम्' इत्यादि, तथेति धर्मान्तरसमुच्चये महान्तश्च ते मुनयश्च महामुनयः -स्थूलभद्रवज्रस्वाम्यादयः पूर्वर्षयस्तेषां चरित्राणि -चेष्टितानि तेषां 'मिथः' परस्परं श्रवणम् -अन्यसाधुभ्य आकर्णनम् , 'कथनं च' स्वयं व्याख्यानं परेभ्यः, अन्वयः प्राग्वत् । अयमर्थः -साधुना प्रत्यहं दिनचर्यारूपाणि स्वाध्यायादिकृत्यान्यनुष्ठेयानि, स्वाध्यायादिश्रान्तेन च सता संवेगवृद्धिकारिणी आसनाऽचलनादिविधिना महर्षीणां कथा कार्या । तदुक्तं पञ्चवस्तुके - १. L.P. | पात्रास्तु त्रिभिः-मु० । 'शेषैः पुनरनुदग्राहितपात्रैः सहिताः सूरयश्चैत्यानि वन्दन्ते' इति बृहत्कल्पसूत्रवृत्तौ गा० १५७७ पृ० ४६२ ॥ २. गृहचैत्यानि वन्दन्ते गृह० मु० ॥ ३. P. संशो० । 'मामकाचित्तेषु-मु० P. मूल । 'मामकाऽचियक्तानि-इति बृहत्कल्पवृत्तौ गा० १५८२ ॥ ४. L.P. | च-मु० नास्ति ।। ५. तद्गृहे-L.P. नास्ति ॥ ६. इतः पर्यन्तपाठ: C. प्रतौ नास्ति, L.P. प्रत्योरस्ति ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy