________________
विहारस्वरूपम् - श्लो० १२६ ॥]
[ ७१७
कदाचित् प्रसरन्ति कदाचिदपसरन्ति चेति, तथा कियता कालेनैष्यथेति पृष्टेऽन्यास्वपि दिक्षु प्रत्युपेक्षका गताः सन्ति ततस्तैर्निवेदिते गुरूणां च विचारे प्राप्ते व्याघाताभावे चेयद्दिनैः, व्याघाते तु हीनेऽधिके वा काले एष्याम इति सविकल्पं ब्रुवते । शय्यातरेण च नामग्राहं नियमितसाधूनां वाऽवग्रहे दत्ते वसतिर्न ग्राह्या, अन्याभावे तु ग्राह्या, तथाऽऽगमननिश्चयोऽपि न वक्तव्यः, तदुक्तौ वसतिपरिकर्मदोषसम्भवात्, अनागमनिश्चयोऽपि न, तदुक्तौ हि वसतेर्भाटकप्रदानादिना स्फेटनं स्यात्, ततः सर्वेषु प्रत्युपेक्षकेषु प्राप्तेषु गुरुरुच्या गमनं भावीति वक्तव्यम् । ततौ द्वौ जनौ गुरुसकाशे गत्वा क्षेत्रस्वरूपं निवेदयतः, गुरवश्च सर्वक्षेत्रस्वरूपाण्यवधार्य निर्धार्य च गच्छसंमत्या गन्तुं निर्दोषं क्षेत्रं गमनदिनात् प्राग्दिने प्रतिक्रमणप्रान्ते धर्मकथापूर्वं सागारिकस्य स्वचलनवेलां कथयन्ति । अग्रतो ज्ञापन सङ्घडीकरणादयस्तत्समये च सागारिकरोदनादयो दोषाः स्युः, प्राप्तश्च पौरुषीद्वयं कृत्वाऽपवादतस्तु उद्गतेऽनुद्गते वापि सूर्ये व्रजन्ति, उक्तं च - " तदुभयसुत्तं पडिलेहणा य उग्गयमणुग्गए वा वि"[ बृहत्कल्प भा० १५४३ ] त्ति । निद्रालुधर्मश्रद्धाल्वोस्तु सङ्केतः कार्यः, सहायो द्वितीयो देयः, उपधिश्च जीर्ण: समर्प्यः साधवश्च प्रातः प्रत्युपेक्षमाणा एव वस्त्राणि विण्टिकया कुर्वन्ति, चरमपौरुष्यां च प्रत्युपेक्षणापूर्वं पात्राण्युद्ग्राहयन्ति, वृषभसाधवश्च शुभेऽहनि गुरूणामक्षानादाय पुरतो व्रजन्ति, गुरूणां पुरतो गमने तु अपशकुननिमित्तकपश्चाद्वलनेन हीलना स्यात्, अथ शकुनेषु जातेषु शय्यातरमनुशास्य व्रजन्ति, शेषास्तु साधवश्चिलिमिलि बद्ध्वा तदन्तरिताः सन्त उपाश्रयसम्मार्जनापूर्वमुपधिं सञ्चयन्ति, बालवृद्धराजप्रव्रजितादयो वोढुं शक्यमुपधिं गृह्णन्ति, शेषमाभिग्रहिका विभज्य गृह्णन्ति, तदभावे च समर्थसाधवः तत्रैकस्कन्धे गुरूपधिविण्टिकां द्वितीये च स्वस्य कुर्वन्ति, ततः प्रत्युपेक्षकदर्शितमार्गक्रमेण मूलग्रामं प्राप्ताः प्रथमं क्षेत्रप्रत्युपेक्षकाश्चिलिमिलीदण्डकप्रोञ्छने गृहीत्वा यान्ति, शय्यातरस्य च गुर्वागमनं निवेद्य वसतिं प्रमार्ण्य द्वारे च चिलिमिलीं बद्ध्वा मुक्त्वैकं धर्मकथिकं व्यावृत्त्य च गुरूणां निवेदयन्ति, ततो वृषभाः शकुनान् परीक्षमाणा अक्षान् गृहीत्वा पुरतो यान्ति, गुरूणां प्राग्गमने तु सव्याघातवसतिनिमित्तकपश्चाद्वलनेन हीलना स्यात्, ततः शेषाः स्पर्द्धकेन स्पर्द्धकेन प्रविशन्ति न तु सर्वेऽपि पिण्डीभूय, यश्च धर्मकथकः स्थितः स सागारिकस्य धर्मकथां करोति, स चाचार्यं मुक्त्वा ज्येष्ठानामप्यन्येषां नाभ्युत्थानं करोति, ततः शुभशकुनैर्वृषभेषु प्रविष्टेषु सूरयः प्रविशन्ति, प्रविशद्भिश्च तैः शय्यातरो द्रष्टव्योऽनालपन्नप्यालाप्यः, धर्मकथ चोत्तिष्ठति, स्वयञ्च धर्मकथां कथयति, क्षेत्रप्रत्युपेक्षकाश्च ग्लानाद्यर्थं शय्यातरानुज्ञातां
१. P. । 'चि ० ॥
D:\new/d-3.pm5\3rd proof