SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ७२४] [धर्मसंग्रह:-तृतीयोऽधिकारः बारस संवच्छराणि" [ ] त्ति । नवमदशमे च प्रायश्चित्ते चतुर्दशपूर्वप्रथमसंहननिनौ यावद्भवतस्ततः परं व्युच्छिन्ने, मूलान्तान्यष्टौ तु दुष्प्रसहं यावदनुवर्तन्ते । यदुक्तं - "दस ता अणुवटुंती, जा चउदसपुव्विपढमसंघयणी। तेण परं मूलंतं, दुप्पसहा जाव चारित्ती" ॥१॥[ प्रव./७५८ ] इति दशविधप्रायश्चित्तलेशः । तथा 'उपसर्गतितिक्षा'इति उपसामीप्येन सर्जनानि उपसृज्यते एभिरिति वा उपसृज्यन्त इति वा उपसर्गा । ते च - "दिव्यमानुषतैरश्चात्मसंवेदनभेदतः ।। चतुष्प्रकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥१॥ हास्याद् द्वेषाद्विमर्शाच्च, तन्मिश्रत्वाच्च देवतः । हास्याद् द्वेषाद्विमर्शाद् दुःशीलसङ्गाच्च मानुषाः ॥२॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घट्टनस्तम्भनश्लेषप्रपातादात्मवेदनाः" ॥३॥ [यो.शा. ३।१५३वृत्तौ] यद्वा वातपित्तकफसन्निपातोद्भवा इति, तेषां तितिक्षा -सहनम् अन्वयः प्राग्वत् । तथा 'परीषहजय' इति मार्गाच्यवननिर्जरार्थं परिषह्यन्त इति परीषहाः, क्षुत्पिपासाशीतोष्ण-दंशमशक-नाग्न्या-ऽरति-स्त्री-चर्या-निषद्या-शय्याऽऽक्रोश-वध-याञ्चाऽलाभ-रोग-तृणस्पर्श-मलसत्कार-प्रज्ञा-ऽज्ञान-दर्शनलक्षणा द्वाविंशतिस्तेषां जयोऽभिभवः, प्राग्वदन्वयः । तेषां जयश्चैवं योगशास्त्रवृत्त्युक्तः - "क्षुधातः शक्तिभाग् साधुरेषणां नातिलवयेत् । अदीनोऽविह्वलो विद्वान् , यात्रामात्रोद्यतश्चरेत् ॥१॥ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । न शीतमुदकं वाञ्छेदेषयेत् प्रासुकोदकम् ॥२॥ बाध्यमानोऽपि शीतेन, त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्पं नाददीत, ज्वलनं ज्वालयेन्न च ॥३॥ उष्णेन तप्तो नैवोष्णं, निन्देच्छायां च न स्मरेत् । वीजनं व्यजनं गात्राभिषेकादि च वर्जयेत् ॥४॥ १. अणुसज्जंती प्र०सा०मु० ॥ २. त्तस्वरूपलेश:-L. ॥ ३. प्राग्वदेव-P.L. || D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy