________________
[७२५
परीषहजयस्वरूपम् -श्लो० १२७॥]
दष्टोऽपि दंशैर्मशकैः, सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न, कुर्यात् कुर्यादुपेक्षणम् ॥५॥ नास्ति वासोऽशुभं वैतत्तन्नेच्छेत् साध्वसाधु वा । नाग्न्येन विप्लुतो जानँल्लाभालाभविचित्रताम् ॥६॥ न कदाप्यरतिं कुर्याद्धर्मारामरतिर्यतिः । गच्छंस्तिष्ठंस्तथाऽऽसीनः, स्वास्थ्यमेव समाश्रयेत् ॥७॥ दुर्धावसङ्गपङ्का हि, मोक्षद्वारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय, चिन्तयेदिति नैव ताः ॥८॥ ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेकोऽपि कुर्वीत, विविधाभिग्रहैर्युतः ॥९॥ श्मशानादौ निषद्यायां, स्त्रयादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गान्निरीहो निर्भयः सहेत् ॥१०॥ शुभाशुभायां शय्यायां, विषहेत सुखासुखे । रागद्वेषौ न कुर्वीत, प्रातस्त्याज्येति चिन्तयेत् ॥११॥ आक्रुष्टोऽपि हि नाक्रोशेत् , क्षमाश्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥१२॥ सहेत हन्यमानोऽपि, प्रतिहन्यान्मुनिन तु । जीवानाशात् क्रुधो दौष्ठ्यात् , क्षमया च गुणार्जनात् ॥१३॥ नायाचितं यतीनां यत् , परदत्तोपजीविनाम् । याञ्चादुःखं प्रतीच्छेत् तन्नेच्छेत्पुनरगारिताम् ॥१४॥ परात् परार्थं स्वार्थं वा, लभेतान्नादि नापि वा । मायेन्नलाभान्नालाभान्निन्द्येत् स्वमथवा परम् ॥१५॥ उद्विजते न रोगेभ्यो, न च काळेच्चिकित्सितम् । अदीनस्तु सहेद् देहाज्जानानो भेदमात्मनः ॥१६॥ अभूताल्पाणुचेलत्वे, संसृतेषु तृणादिषु । सहेत दुःखं तत्स्पर्शभवमिच्छेन्न तान् मृदून् ॥१७॥ ग्रीष्मातपपरिक्लिन्नात् , सर्वाङ्गीणान्मलान्मुनिः । नोद्विजेत न सिस्नासेन्नोद्वर्त्तयेत् सहेत तु ॥१८॥
D:\new/d-3.pm5\3rd proof