________________
७२६]
[धर्मसंग्रहः-तृतीयोऽधिकार: उत्थाने पूजने दाने, न भवेदभिलाषुकः । असत्कारे न हीनः स्यात् सत्कारे स्यान्न हर्षवान् ॥१९॥ प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्राज्ञतां विदन् । न विषीदन्न वा माद्येत् , प्रज्ञोत्कर्षमुपागतः ॥२०॥ ज्ञानचारित्रयुक्तोऽस्मि, छद्मस्थोऽहं तथापि हि । इत्यज्ञानं विषहेत, ज्ञानस्य क्रमलाभवित् ॥२१॥ जिनास्तदुक्तं जीवो वा, धर्माधर्मी भवान्तरम् । परोक्षत्वान्मृषा नैव, चिन्तयेत् प्राप्तदर्शनः ॥२२॥ शारीरमानसानेवं, स्वपरप्रेरितान्मुनिः । परीषहान सहेताभीर्वाक्कायमनसां वशी ॥२३॥ ज्ञानावरणीये वेद्ये, मोहनीयान्तराययोः । कर्मसूदयमाप्तेषु , संभवन्ति परीषहाः ॥२४॥ वेद्यात् स्यात् क्षुत्तृषा, शीतमुष्णं दंशादयस्तथा । चर्या शय्या वधो रोगस्तृणस्पर्शमलावपि ॥२५॥ प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसंभवौ । अन्तरायादलाभोऽमी, छद्मस्थस्य चतुर्दश ॥२६॥ क्षुत्पिपासा शीतमुष्णं, दंशाश्चर्या वधो मलः ।
शय्या रोगस्तृणस्पर्शो, जिने वेद्यस्य संभवात् ॥२७॥[यो.शा.३।१५३ वृत्तौ] उक्तं चान्यत्रापि “परीषहाणां समवतारो द्विधा, कर्मप्रकृतिषु गुणस्थानेषु च" । तत्राद्यो यथा -
"दंसणमोहे दंसणपरीसहो, पण्ण १ ऽनाण २ पढमंमि । चरमेऽलाभपरीसह, सत्तेव चरित्तमोहंमि ॥१॥ [ प्रव./६८७] अक्कोस १ अरइ २ इत्थी ३, निसीहिआ ४ ऽचेल ५ जायणा ६ चेव । सक्कार ७ पुरक्कारे ८, एक्कारस वेयणीमज्झे ॥२॥[ प्रव./६८८] पंचेव आणुपुव्वी, चरिया सिज्जा तहेव जल्ले य ।
वहरोगतणप्फासा, सेसेसुं नत्थि अवयारो" ॥३॥ [प्रव./६८९] द्वितीयो यथा
"बावीसं बायरसंपराय, चउदस सुहमरागंमि । छउमत्थवीअरागे, चउदस एक्कारस जिणंमि" ॥४॥[प्रव./६९०]
D:\new/d-3.pm53rd proof