________________
गच्छवासमहत्त्वम् -श्लो० १२७॥]
[७२७ एकस्मिन् काले चोत्कृष्टतो जघन्यतश्चैकप्राणिनि परीषहसंख्या यथा -
"वीसं उक्कोसपए, वटुंति जहन्नओ अ एक्को अ।
सीओसिणचरिअनिसीहिआ य जुगवं न वदि॒ति" ॥१॥[प्रव./६९१] इति । तदेतद् गच्छवासादिकार्यजातं विश्रोतसिकारहितमनुशीलयता लब्धः परिणामो रक्षणीयः, अलब्धोऽप्यनेनैव प्रयत्नेन प्राप्यते न तूपस्थापनामात्रेण, यतः साऽभव्यानामपि स्यात् , सफला चेयम् , छद्मस्थगुरूणामाज्ञाऽऽराधनात् , प्रायस्तद्विधेर्मुक्तिफलत्वादयं नियमः, अन्यथा सामायिकमात्रतोऽनन्ताः सिद्धाः, इत्ययमफल: स्यात् , असदपि चैतच्चरणं विधिना गच्छवासादिना जातमनेकेषां गोविन्दवाचकादीनां पश्चात् , तस्माच्चारित्र एव यत्नः कार्यः, ज्ञानदर्शनयोरपि तत्त्वदृष्ट्या फलमेतदेव चारित्रम् , अतस्तद्विना ते अफले । तदाहुः -
"निच्छयणयस्स चरणायविघाए णाणदंसणवहो वि।
ववहारस्स उ चरणे, हयंमि भयणा उ सेसाणं" ॥१॥[पञ्चा.११।४५ ] इति । ननु “सिझंति चरणरहिया, दंसणरहिआ ण सिज्झंति' [ ] इत्यागमात् , सूत्रे दर्शनस्य प्राधान्यं श्रूयते तत्कथमेतत् ? इति चेत् , न, दीनारस्य विशिष्टसंपदुत्पत्ताविवान्तरालिकचारित्रकार्यसंपादनेन सिद्धिहेतुतया दर्शनप्राधान्यव्यवस्थितेः। अत एव भावमङ्गीकृत्य क्रमभवनममीषामुक्तमागमे -
"संमत्तंमि अ लद्धे, पलिअपहुत्तेण सावओ हुज्जा।
चरणोवसमखयाणं, सागरसंखंतरा हंति ॥१॥ [विशे.भा./१२२२] एवं अप्परिवडिए, संमत्ते देवमणुअजम्मेसुं।
अण्णयरसेढिवज्जं, एगभवेणं तु सव्वाणि" ॥२॥ [विशे.भा./१२२३] तस्माच्चरणाभावे न मोक्ष इति भावचरणं प्रतीत्य व्यवस्थितमिति । द्रव्यचरणप्रतिपत्तौ तु भजना, सोमेश्वरादीनामन्तकृत्केवलिनामभावात् , तेषामपि भावचरणमन्तकृत्केवलित्वफलप्रदं भवान्तरीयद्रव्यचरणपूर्वमेव, उत्तमत्वात् , तादृशचरमशरीरत्वस्याऽनेकभवाभ्यस्तकुशलयोगसाध्यत्वात् , दुर्विजयो हि मोहोऽनेकभवैरेव जीयत इति, मरुदेव्यादीनां त्वतथाभाव आश्चर्यभूतत्वादविरुद्धो, दशानामितरोपलक्षणत्वात् । तदुक्तं पञ्चवस्तुके -
"णणु णेहा य )मिहं पढिअं, सव्वं उवलक्खणाइ एअंतु।।
अच्छेरगभूअंति(अ),भणिअंणेअंपिअणवरयं"॥१॥[पञ्च./९२८ ] इति। १. णेहमिहं-L.P. पञ्चवस्तुके । ननु नेदं-इति तत्र वृत्तौ ।।
D:\new/d-3.pm5\3rd proof