SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ७२८] [धर्मसंग्रह:-तृतीयोऽधिकारः __ सर्वं चतुरस्रम् , तस्माद् गच्छवासादिविधौ यत्नो विधेयः ॥१२७।। । ___ इत्थं च क्रियाकलापं कलयन् पूर्णपर्यायो गणानुज्ञायोग्योऽपि भवतीति तल्लक्षणं सापेक्षयतिधर्मं तत्क्रमप्रस्तावनां चाह - अनुयोगगणानुज्ञाऽप्यनवद्यक्रमागता । तमेव सूत्रविदितं, वर्णयामो यथास्थितम् ॥१२८॥ 'अनुयोगगणानुज्ञाऽपि' अनुयोगः -अर्थव्याख्यानं गणो -गच्छस्तयोरनुज्ञा - अनुमतिर्न केवलं गच्छवासादिकार्यजातमित्यपिशब्दार्थः, साऽनुज्ञापयितुरनुज्ञाग्रहीतुश्च सापेक्षयतिधर्मो भवतीतिसम्बन्धः । सा कीदृशी? इत्याह -'अनवद्या'इति, अनवद्येन - अवद्यरहितेन ‘क्रमेण' प्रव्रज्याशिक्षादिपरिपाटीलक्षणेन 'आगता' प्राप्ता, 'तमेव' क्रम 'सूत्रविदितं' सिद्धान्तोक्तं यथास्थितम्' अविपरीतं 'वर्णयामो' वाग्विषयं कुर्मः ॥१२८|| प्रतिज्ञातमेवाह - व्रतग्रहेऽष्टौ सूत्रार्थविहारे द्वादश क्रमात् । पञ्चचत्वारिंशवर्षे, योग्यतैवं गणिस्थितेः ॥१२९॥ 'व्रतग्रहे' चारित्रप्रतिपत्तौ 'अष्टौ' वर्षाणि भवन्ति, "तदहो परिभवखेत्तम्"[पञ्चवस्तुके ५१] इत्यादिनाऽष्टभ्यो वर्षेभ्योऽधश्चारित्रग्रहणप्रतिपत्तिनिषेधात् , तथा 'सूत्रार्थविहारे' इति समाहारद्वन्द्वस्ततः सूत्रे -सूत्रग्रहणे अर्थे -अर्थग्रहणे विहारे-नानादेशदर्शनार्थमुपदेशपूर्वकविहरणे ‘क्रमाद्' अनुक्रमेण द्वादश द्वादश वर्षाणि भवन्तीत्येवंरीत्या पञ्चचत्वारिंशे वर्षे प्राप्ते 'गणिस्थितेः' अनुयोगगणनानुज्ञाप्रदानविधेर्योग्यता - पर्यायौचिती भवतीत्यर्थः । आह च - "अडवरिस दिक्ख बारस, सत्ते अत्थे य वायगत्ते अ। पणयालीसे एरिसगुणजुत्तो होइ आयरिओ" ॥१॥[प्राचीना सामाचारी-द्वार११] त्ति । अथ तस्यां सत्यां यत् स्यात् तच्छ्लोकद्वयेनाह - ईदृक्पर्यायनिष्पन्नः, षट्त्रिंशद्गुणसंगतः । दृढव्रतो यतियुतो, मुक्त्यर्थी सङ्घसम्मतः ॥१३०॥ श्रुतानुयोगाऽनुज्ञायाः, पात्रं न तु गुणोज्झितः । अपात्रे तत्प्रदाने यन्महत्याशातना स्मृता ॥१३१॥ युग्मम् ॥ १. 'गच्छवासस्त° P. || २. गच्छवासाद्येव कार्य° P. || ३. लक्षणे गता-P. । D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy