________________
आचार्यपदयोग्यतास्वरूपम् - श्लो० १३० / १३१॥]
[ ७२९
'ईदृशा' पूर्वोक्तेन 'पर्यायेण' वर्षपर्यायेण 'निष्पन्नः ' प्राप्तनिष्ठः तथा षट्त्रिंशता गुणैः ‘सङ्गतः' सहितः । चा "पंचिंदिअसंवरणो, तह नवविहबंभचेरगुत्तिधरो । चविहकसायमुक्को, अट्ठारगुणेहिं संजुत्तो ॥१॥ [] पंचमहव्वयजुत्तो, पंचविहायारपालणसमत्थो । पंचसमिओ तिगुत्तो, छत्तीसगुणो गुरू होई" ॥२॥[]
गुरुगुणाश्च शास्त्रे बहुभि प्रकारैः प्ररूपिताः, परम् अत्र तु विस्तरभिया प्रसिद्धप्रकारेणैव प्रदर्शिता इति तत्त्वम् । तथा दृढानि व्रतानि - महाव्रतानि यस्य स तथा, तथा यतिभिः परिवारभूतसाधुभिर्युतः –मिश्रितः, तथा मुक्तेः - परमपदस्य, अर्थी- अभिलाषी न तु सर्वथा सांसारिकसुखलेशस्पृहयालुः, तथा सङ्घः - साधु-साध्वी - श्रावक-श्राविकारूपश्चतुर्विधस्तस्य सम्मतः – अभिमतः, न तु कस्याप्यबहुमतः, एतादृशो यतिः श्रुतानुयोगस्य - जिनप्रवचनव्याख्यानस्य याऽनुज्ञा –‘त्वं जिनप्रवचनं द्रव्यगुणपर्यायैरङ्गैर्व्याख्याहि' इति गुरोरनुशिष्टिस्तस्याः 'पात्रं' भाजनं भवति, आचार्यपदे स्थापनीयो भवतीत्यर्थः । यदुक्तम् - ‘“देसकुलपभिइछत्तीसगुणगणालंकिओ दढचरित्तो ।
जयणाजुत्तो संघस्स, संमओ मुक्खकंखी य" ॥१॥ [ सामाचारी - द्वार११ ] इति ।
न तु गुणोज्झितः – सर्वथोक्तगुणरहितः, कालानुभावादेकादिगुणरहितस्तु योग्यतां नातिक्रामति । आह च -
61
-
'कालाइवसा इक्काइगुणविहीणो विसुद्धगीअत्थो ।
ठाविज्जइ सूरिपए, उज्जुत्तो सारणाईसु" ॥१॥ [ सामाचारी-द्वार११ ] त्ति ।
अत एव पञ्चवस्तुके
44
'जम्हा वयसंपण्णा, कालोचिअगहिअसयलसुत्तत्था ।
अणुओगगणाणुण्णाए, जोग्गा भणिआ जिणिदेहिं" ॥१॥[ पञ्च.९३२ ] इत्येवोक्तम् ।
पञ्चाशकेप्युक्तम्
—
—
"गुरुगुणरहिओ वि इहं, दट्ठव्वो मूलगुणविउत्तो जो ।
न उ गुणमित्तविहुणो त्ति चंडरुद्दो उदाहरणं" ॥१॥ [ पञ्चा.११।३५ ] ईति ॥१३०॥
D:\new/d-3.pm5\3rd proof
१. इतोऽग्रे L.P. मूले - " मूलगुणवियुक्त इति महाव्रतरहित-सम्यग्ज्ञानक्रियारहिताविति तद्वृत्तिः" इत्यधिकम् ॥