________________
७३० ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
कुतः ? इत्याह –‘यद्’ यस्मात् कारणात् ' अपात्रे' अयोग्ये 'तत्प्रदाने' अनुयोगानुज्ञाप्रदाने महती आशातना तीर्थकरादेः 'स्मृता' प्रतिपादिता, जिनैरिति शेषः । यतः - "सुगुणाभावे न पुणो, गुणपरिहीणो ठविज्जए सूरी ।
अप्पत्ते सूरिपयं, दिंतस्स गुरुस्स गुरुदोसो" ॥१॥ [ सामाचारी-द्वार११ ] तथा पञ्चवस्तुकेऽपि
'इहरा उ मुसावाओ, पवयणखिसा य होइ लोगंमि ।
सा वि गुणहाणी, तित्थुच्छेओ अ भावेणं" ॥१॥ [पञ्च./९३३]
-
एतदर्थो यथा- - 'अन्यथा' अनीदृशि अनुयोगानुज्ञायां मृषावादस्तमनुजानत: प्रवचनखिसा च लोके, * शेषाणामपि शिष्यादीनां गुणहानि: * तीर्थोच्छेदश्च भावतः, तंत्र मृषावादः कालोचितसकलसूत्रार्थानधिगमेऽनुयोगानुज्ञावचनस्य निर्विषयत्वात्, दुर्गतसुते दद्यास्त्वमेतानि रत्नानीतिवचनवत्, न च स्वल्पाध्ययनमात्रेण सविषयत्वम्, एतस्य काशकुशालम्बनप्रायत्वात्, स्वल्पश्रुतस्य श्रावकादिभिरप्यधीतत्वात्, अतो मृषावाद एव तमनुजानतः, अनुयोगी लोकैः संशयनाशाय प्रायः कुशलाधिगमाय चाश्रीयते, स च वराको गम्भीरपदार्थभणितिमार्गेऽकुशलः किं तेभ्यः सूक्ष्मपदं प्ररूपयेत् यत्किञ्चिदसंबद्धप्रलापिनं च दृष्ट्वा भवति विदुषामवज्ञा - कथमयं प्रवचनधरः कृतः, अहो असारमेतद्यदयमज्ञो नायक इति प्रवचनखिंसा, शिष्याणामपि कथं सोऽनभिज्ञो ज्ञानादिसम्पत्तिं संसारभयच्छेदिनीं करिष्यति ?, न ह्यन्यतोऽपि बहुश्रुतादसौ तां सम्पादयितुं क्षमः, अहमप्याचार्य एव कथं मच्छिष्या अन्यसमीपे शृण्वन्तीति मिथ्याभिमानात्, एवं ते शिष्या अपि मूर्खा एव भवन्ति तथा तच्छिष्या अपीति प्रवाहेन ज्ञानादिगुणहानि:, ज्ञानाद्यभावे हि सर्वमनर्थकं शिरस्तुण्डमुण्डनभिक्षाटनादि चरकादीनामिव, स्वमतिविकल्पेन तस्य रोगचिकित्साविधानवदप्रमाणत्वात् । इत्थं च द्रव्यलिङ्गमात्रस्य प्रायोऽनर्थहेतुत्वाद् भावतस्तीर्थोच्छेद एवेति। तस्मात् कालोचितसूत्रार्थे सुनिश्चितस्यैवानुयोगोऽनुज्ञातव्यः, न श्रवणमात्रेण । यदभाणि संमतौ सिद्धसेनाचार्यै: -
44
'जह जह बहुस्सुअसंमओ अ, सीसगणसंपरिवुडो अ ।
अविच्छिओ अ समए, तह तह सिद्धंतपडिणीओ" ॥१॥ [ सम्मति.प्र.६६ ] ॥१३१॥
१. * * चिह्नद्वयमध्यवर्तीपाठः मु० P. C. नास्ति ॥ २. तत्र शेषाणामपि शिष्यादीनां गुणहानिः कालो L. I ३ L.P. | 'भव' - मु० C. I
D:\new/d-3.pm5\3rd proof