________________
आचार्यपदप्रदानविधि: - श्लो० १३२ ॥ ]
अथ फलितमाह -
[ ७३१
तस्मादुक्तगुणाढ्याय, देयं सूरिपदं ध्रुवम् ।
विधिपूर्वं विधिश्चात्र, सामाचार्यां प्रपञ्चितः ॥१३२॥ ‘तस्मात्’कारणात्‘उक्तगुणाढ्याय' पूर्वोक्तगुणसम्पूर्णाय' ध्रुवं' निश्चितं ' सूरिपदम्' आचार्यपदं ‘देयं’ समर्पणीयम्, गुरुणेतिशेषः, कथं देयम् ? इत्याह - ' विधिपूर्वम् 'इति विधिश्च' अत्र' प्रक्रमे ' सामाचार्यां' सामाचारीग्रन्थे' प्रपञ्चितः 'विस्तरेणोक्तः । तत्पाठश्चायम् - " जइगुण १ काल २ निसिज्जा ३, चिइ ४ वंदु ५ स्सग्ग ६ नंदि ७ सगछोभा ८ । मंत ९ क्ख( र)१० नाम ११ वंदण १२, अणुसट्ठि १३ निरुद्ध १४ गणणुण्णा १५" ॥१॥ [ सामाचारी द्वार११ ] तत्र गुणास्तूक्ता एव, ततश्च शिष्यपरीक्षां कृत्वा प्रशस्ते तिथिनक्षत्रमुहूर्त्तादौ गृहीते च प्राभातिके काले प्रस्थापिते च गुरुशिष्याभ्यां स्वाध्याये प्रशस्ते जिनभवनादिक्षेत्रे शिष्यगुरुयोग्यनिषद्याद्वये च कृते अनुयोगानुज्ञार्थं कृतलोचस्य शिष्यस्य शिरसि गुरुर्गन्धानभिमन्त्र्य क्षिपति, ततः प्राग्वद्देवानभिवन्द्य वन्दनं च दत्त्वा अनुयोगानुज्ञार्थं द्वावपि सप्तविंशत्युच्छ्वासमानं कायोत्सर्गं कुरुतः, ततः चतुर्विंशतिस्तवं भणित्वा नमस्कारत्रयपूर्वमूर्ध्व स्थितो गुरुरन्यो वा अस्खलितादिगुणोपेतं बृहन्नन्दिसूत्रमाकर्षयति, शिष्यस्त्वर्धावनतकायः कृतकरकुड्मलः प्रवर्द्धमानसंवेगः सावधानमनाः शृणोति, ततः सङ्घस्य वासदानम् ।
ततः शिष्यो वन्दित्वा भणति -' इच्छकारि भगवन् ! तुम्हे अम्ह अणुओगं अणुजाणह' तओ गुरू भणइ – अहमेयस्स साहुस्स दव्वगुणपज्जवेहिं खमासमणाणं हत्थेणं अणुओगं अणुजाणेमि' बीए 'संदिसह किं भणामि' ? ' वंदित्ता पवेयह', तइए ‘इच्छकारि भगवन् तुम्हे अम्ह अणुओगो अणुन्नाओ, इच्छामो अणुसट्ठिति सीसे भणिए गुरू भणइ 'संमं अवधारय अन्नेसिं च पवेयह', चउत्थे 'तुम्हाणं पवेइओ, संदिसह साहूणं पवेएमि', पंचमे एगनमुक्कारेणं समवसरणं गुरुं च पइक्खिणे, एवं तिण्णि वारा, छट्टे ‘तुम्हाणं पवेइओ साहूणं पवेइओ संदिसह काउस्सग्गं करेमि', सत्तमे 'अणुओगाणुजाणावणियं करेमि काउस्सग्गम् 'इच्चाइणा उस्सग्गे कए गुरुसमप्पियनिसिज्जाजुओ गुरुं तिपयक्खिणीकरिय वंदित्ता गुरुदाहिणभुयासणे निसिज्जाए अ निसीयइ, तओ निसण्णस्स लग्गवेलाए दाहिणसवणे गुरू गुरुपरंपरागए मंतपए तिण्णि वारे परिकहेइ, तओ व ंतियाओ तिण्णि अक्खमुट्ठीओ देइ, करयलपुडे सीसो
१. L. । भगवन्-मु० P. C. नास्ति ॥
D:\new/d-3.pm5\3rd proof