Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 343
________________ [ धर्मसंग्रहः-चतुर्थोऽधिकारः केवलपडिसेहभावाओ” [ ] इति वचनात् ३, कल्पद्वारे स्थितकल्पे अस्थितकल्पे च भवति ८, लिङ्गद्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्यभावरूपे लिङ्गे भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव द्रव्यलिङ्गे तु भाज्यो, हृतजीर्णतादिभिः कदाचिद् द्रव्यलिङ्गस्याभावात्, गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः शतपृथक्त्वं पूर्वप्रतिपन्नास्तु द्विधापि सहस्रपृथक्त्वमेवेत्यादि जिनकल्पिस्वरूपम् । ७७२] अथ पारिहारिकस्वरूपं प्रोच्यते - पारिहारिका निर्विशमानका निर्विष्टकायिकाश्चेति द्विविधाः, तत्राद्या विवक्षिततपोविशेषसेवकाः, निर्विष्टकायिका आसेवितविवक्षिततपोविशेषाः, इह च नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिण एकः कल्पस्थितो वाचनाचार्यः, यद्यपि सर्वेऽपि श्रुतातिशयसम्पन्नास्तथापि कल्पत्वात् तेषामेक कश्चित् कल्पस्थितोऽवस्थाप्यते । तेषां च पारिहारिकाणां निर्विशमानकानां तपस्त्रिधा - जघन्यं मध्यममुत्कृष्टं चेति, तच्च त्रिविधमपि ग्रीष्मकाले यथाक्रमं चतुर्थं षष्ठमष्टमं च भवति, शिशिरे च षष्ठमष्टमं दशमं च, वर्षाकाले चाष्टमं दशमं द्वादशं चेति, पारणके च त्रिष्वपि कालेष्वाचाम्लम्, भिक्षाग्रहणं च प्राग्वत्, इदं चतुर्णां पारिहारिकाणां तपः, तु कल्पस्थितादयः पञ्च ते प्रागुक्तभिक्षाभिग्रहयुक्ताः सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति । एवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरा भवन्ति, अनुचरकाश्च पारिहारिका भवन्ति, यावदपरे षण्मासाः, ततो मासद्वादशकानन्तरं वाचनाचार्योऽपि षण्मासान् पारिहारिकतपः करोति, शेषाणां चाष्टानां मध्ये सप्त वैयावृत्त्यकरा भवन्ति, एकस्तु वाचनाचार्य इति । एवमष्टादशमासप्रमाणोऽयं कल्पो भवति । ततः कल्पसमाप्तौ तमेव कल्पं जिनकल्पं वा प्रयान्ति गच्छं वाऽनुसरन्ति । परिहारविशुद्धिका हि द्विविधाः - इत्वरा यावत्कथिकाश्च तत्र ये कल्पसमाप्त्यनन्तरं कल्पं गच्छं वा यान्ति ते इत्वरा, जिनकल्पप्रतिपत्तारस्तु यावत्कथिकाः, इह चेत्वराः कल्पमाहात्म्यादनुपसर्गा अनातङ्काश्च भवन्ति, यावत्कथिकास्तु जिनकल्पिकवत् ज्ञेयाः, १. L.P. । अस्थितकल्पे च - मु० C. नास्ति । बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १४२१ ॥ २. अत्र P. प्रतौ जिनकल्पिक स्वरूपनिरूपणावसरे सप्तविंशतिरपि द्वाराणि वर्णितानि ततः परिहारविशुद्धिवर्णनावसरे लिखितम्- 'तत्प्ररूपणार्थं च क्षेत्रादिद्वाराणि दर्श्यन्ते, तत्र तीर्थ ४ पर्याया ५ ऽऽगम ६ वेद ७ लेश्या १० ध्याना ११ ऽभिग्रह १३ प्रव्राजना १४ मुण्डापना १५ प्रायश्चित्त १६ निष्प्रतिकर्मता १७ कारण १८ भिक्षापथ १९ द्वाराणि जिनकल्पिकवदवसेयानि शेषाणि तु भाव्यन्ते' इति ॥ D:\new/d-3.pm5\3rd proof

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446