Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 349
________________ ७७८ ] [ धर्मसंग्रहः-चतुर्थोऽधिकारः प्रबन्धोऽभूरिभावो, निरपेक्षयतिर्हि एषणादिविषयं मुक्त्वा न केनापि सार्द्धं जल्पति, "एगवयणं दुवयणम्" [ ] इति वचनप्रामाण्यात्, तथा सर्वदा - सर्वकालं दिवा रात्रौ चेत्यर्थः अप्रमत्तता –निद्रादिप्रमादपरिहारः । तथा बाहुल्यात् - प्रायेण ऊर्ध्वस्थानंकायोत्सर्गेऽवस्थानम्, कदाचिदुपविशति जिनकल्पिकादिस्तदा नियमादुत्कुटुक एव, न तु निषद्यायामौपग्रहिकोपकरणस्यैवाभावात् । तथा शुभध्याने धर्मध्यानादावेक एव तानः - चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्ता । तथा संसृष्टा-ऽसंसृष्टलक्षणैषणाद्वयरहिताः शेषा उद्धृताल्पलेपोद्गृहीताप्रगृहीतोज्झितधर्मालक्षणाः पञ्चैषणास्ताभिर्भिक्षा- भिक्षणम्, अयं भावः - उद्धृतादिपञ्चैषणानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरया पानकमिति । एवंविधा भिक्षा कुत्र भवति ? इत्याह –— षड्भिर्भागैः ' षट्संख्यैरंशै: 'कल्पिते' बुद्ध्या पृथक्कृते 'क्षेत्रे' स्वाश्रितग्रामादौ षड्भिर्दिनैः क्षेत्रषड्भागान् भिक्षार्थमटतीति भावः तथा 'नियते' तृतीयपौरुषीलक्षणे ‘काले' समये 'गमनं' संचरणं यथोक्तम् – “भिक्खापंथो अ तइयाइ " []त्ति तथा तुर्ये यामे - दिवसस्य चतुर्थे प्रहरे तुशब्दः विशेषणार्थः, अवस्थितिः - गमननिर्वृत्तिरिति ॥१५७॥ अथैतद्धर्मनिरूपणमुपसंहरन्नाह - संक्षेपान्निरपेक्षाणां, यतीनां धर्म ईरितः । अत्युग्रकर्मदहनो, गहनोग्रविहारतः ॥१५८॥ — 'निरपेक्षाणां यतीनां' जिनकल्पिकादीनां 'धर्म' अल्पोपधितादिरूपः ' ' ‘संक्षेपाद्’ लेशमात्रेण ‘ईरितः' प्रोक्तः कीदृशो धर्मः ? - ' अत्युग्रकर्मदहनः ' अत्युग्रं - कर्कश - वेदनीयं यत्कर्म तस्य दहनः – अपनायकः, कस्माद्धेतोः ? इत्याह – 'गहनोग्रविहारतः ' गहनो – दुरधिगम उग्र – उत्कृष्टो विहारो - विहरणं तस्मात् ॥१५८॥ इति परमगुरुभट्टारकश्रीविजयानन्दसूरिशिष्यमुख्यपण्डितश्रीशान्ति विजयगणिचरणसेविमहोपाध्याय श्रीमानविजयगणिविरचितायां स्वोपज्ञधर्मसंग्रहवृत्तौ निरपेक्षयतिव्यावर्णनो नाम चतुर्थोऽधिकारः । १. L.P.C. । `दुत्कटुक-मु० । उक्कुडुयासणसमुई - इति बृहत्कल्पभाष्ये [गा० १३६४] 'जिनकल्पं प्रतिपन्नः पुनर्नियमादुत्कुटुक एव' इति तत्रैव वृत्तौ ॥ २. P. C. । संक्षेपादिति ले मु० ॥ D:\new/d-3.pm5\ 3rd proof

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446