________________
७७८ ] [ धर्मसंग्रहः-चतुर्थोऽधिकारः प्रबन्धोऽभूरिभावो, निरपेक्षयतिर्हि एषणादिविषयं मुक्त्वा न केनापि सार्द्धं जल्पति, "एगवयणं दुवयणम्" [ ] इति वचनप्रामाण्यात्, तथा सर्वदा - सर्वकालं दिवा रात्रौ चेत्यर्थः अप्रमत्तता –निद्रादिप्रमादपरिहारः । तथा बाहुल्यात् - प्रायेण ऊर्ध्वस्थानंकायोत्सर्गेऽवस्थानम्, कदाचिदुपविशति जिनकल्पिकादिस्तदा नियमादुत्कुटुक एव, न तु निषद्यायामौपग्रहिकोपकरणस्यैवाभावात् । तथा शुभध्याने धर्मध्यानादावेक एव तानः - चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्ता ।
तथा संसृष्टा-ऽसंसृष्टलक्षणैषणाद्वयरहिताः शेषा उद्धृताल्पलेपोद्गृहीताप्रगृहीतोज्झितधर्मालक्षणाः पञ्चैषणास्ताभिर्भिक्षा- भिक्षणम्, अयं भावः - उद्धृतादिपञ्चैषणानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरया पानकमिति । एवंविधा भिक्षा कुत्र भवति ? इत्याह –— षड्भिर्भागैः ' षट्संख्यैरंशै: 'कल्पिते' बुद्ध्या पृथक्कृते 'क्षेत्रे' स्वाश्रितग्रामादौ षड्भिर्दिनैः क्षेत्रषड्भागान् भिक्षार्थमटतीति भावः तथा 'नियते' तृतीयपौरुषीलक्षणे ‘काले' समये 'गमनं' संचरणं यथोक्तम् – “भिक्खापंथो अ तइयाइ " []त्ति तथा तुर्ये यामे - दिवसस्य चतुर्थे प्रहरे तुशब्दः विशेषणार्थः, अवस्थितिः - गमननिर्वृत्तिरिति ॥१५७॥
अथैतद्धर्मनिरूपणमुपसंहरन्नाह -
संक्षेपान्निरपेक्षाणां, यतीनां धर्म ईरितः ।
अत्युग्रकर्मदहनो, गहनोग्रविहारतः ॥१५८॥
—
'निरपेक्षाणां यतीनां' जिनकल्पिकादीनां 'धर्म' अल्पोपधितादिरूपः ' ' ‘संक्षेपाद्’ लेशमात्रेण ‘ईरितः' प्रोक्तः कीदृशो धर्मः ? - ' अत्युग्रकर्मदहनः ' अत्युग्रं - कर्कश - वेदनीयं यत्कर्म तस्य दहनः – अपनायकः, कस्माद्धेतोः ? इत्याह – 'गहनोग्रविहारतः ' गहनो – दुरधिगम उग्र – उत्कृष्टो विहारो - विहरणं तस्मात् ॥१५८॥
इति परमगुरुभट्टारकश्रीविजयानन्दसूरिशिष्यमुख्यपण्डितश्रीशान्ति
विजयगणिचरणसेविमहोपाध्याय श्रीमानविजयगणिविरचितायां स्वोपज्ञधर्मसंग्रहवृत्तौ निरपेक्षयतिव्यावर्णनो नाम चतुर्थोऽधिकारः ।
१. L.P.C. । `दुत्कटुक-मु० । उक्कुडुयासणसमुई - इति बृहत्कल्पभाष्ये [गा० १३६४] 'जिनकल्पं प्रतिपन्नः पुनर्नियमादुत्कुटुक एव' इति तत्रैव वृत्तौ ॥ २. P. C. । संक्षेपादिति ले मु० ॥
D:\new/d-3.pm5\ 3rd proof