________________
ग्रन्थोपसंहारः -श्लो० १५९॥]
[७७९ साम्प्रतं सकलशास्त्रार्थपरिसमाप्तिमुपदर्शयन्नाह -
इत्येष यतिधर्मोऽत्र, द्विविधोऽपि निरूपितः ।
ततः कात्स्येन धर्मस्य, सिद्धिमाप निरूपणम् ॥१५९॥ 'इति' पूर्वोक्तप्रकारेण 'अत्र' शास्त्रे 'एष' प्रत्यक्षः द्विविधः -सापेक्ष-निरपेक्षभेदवान् न पुनरेक एवेत्यपिशब्दार्थः । 'यतिधर्मः' उक्तलक्षणो 'निरूपितो' निरूपणविषयीकृतः 'ततो' द्विविधयतिधर्मनिरूपणाद् द्विविधगृहिधर्मस्य च प्रागेव निरूपणात् 'कात्स्न्येन' सर्वप्रकारेण धर्मस्य 'निरूपणं' शास्त्रादौ प्रतिज्ञातं 'सिद्धिमाप' सम्पूर्णतां प्राप ॥१५९॥
इति श्रीधर्मसंग्रहप्रकरणं सूत्रतो वृत्तितश्च समाप्तम् ॥ "प्रत्यक्षरं गणनया, ग्रन्थेऽत्र स्युरनुष्टुभाम् । चतुर्दश सहस्राणि, षट्शती च द्विकोत्तरा ॥१॥१४६०२॥
१. पञ्चदश सहस्राणि षट्शती चाष्टकोत्तरा ॥१।। १५६०८-P. संशो० ।।
D:\new/d-3.pm53rd proof