________________
निरपेक्षयतिधर्मस्वरूपम् -श्लो० १५५/१५६/१५७॥]
[ ৩৩৩ साधुं परिचारणार्थं गच्छस्य समर्पयन्ति, अन्यं च तत्स्थाने गृह्णन्ति, तथा स्थविरयथालन्दिका एकैकपतद्ग्रहकाः सप्रावरणाश्च, द्वितीयास्तु जिनकल्पापेक्षया भाज्या इति । गणमानमाश्रित्यैषां जघन्यं गणत्रयरूपम् , उत्कृष्टं तु शतपृथक्त्वं, पुरुषप्रमाणं च पञ्चदशकरूपमुत्कृष्टं तु सहस्रपृथक्त्वम् , न्यूनप्रक्षेपे तु एकादयोऽपि भवन्ति जघन्यतः प्रतिपद्यमानकाः, उत्कर्षतः पुनः शताग्रश एव, पूर्वप्रतिपन्नानां तु द्विधापि कोटीपृथक्त्वमेवेति निरूपिता निरपेक्षयतिधर्मपद्धतिः ॥१५७।। साम्प्रतं सूत्रसन्दर्भेण संक्षेपतस्तां दिदर्शयिषुः श्लोकत्रयमाह -
स चाल्पोपधिता, सूत्रगुरुतोगविहारिता । अपवादपरित्यागः, शरीरेऽप्रतिकर्मता ॥१५५॥ देशनायामप्रबन्धः, सर्वदा चाप्रमत्तता । ऊर्ध्वस्थानं च बाहुल्याच्छुभध्यानैकतानता ॥१५६॥ उद्धृताोषणाभिक्षा, क्षेत्रे षड्भागकल्पिते ।
गमनं नियते काले, तुर्ये यामे त्ववस्थितिः ॥१५७॥ 'स च' निरपेक्षयतिधर्मोऽल्पोपधितादिश्लोकत्रयेणोपदय॑मानो भवतीतिसम्बन्ध, तत्राल्पः -स्थविरकल्पापेक्षया न्यून उपधिः -वस्त्रपात्रादिरूपो यस्य स तथा तद्भावस्तत्ता, उपधिप्रमाणं च प्राग्निरूपितमेव । तथा सूत्रम् -आगम एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तद्भावस्तत्ता । तथा विहरतीत्येवंशीलो विहारी तस्य भावस्तत्ता, उग्रा ग्रामैकरात्रादिरूपेणोत्कृष्टा विहारिता विहारः, किमुक्तं भवति ?-यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपन्नो भवति तदा ऋतुबद्धे काले ग्रामेऽज्ञातः सन् स एकरात्रिं द्विरात्रं वा वसति, यथोक्तम् –'नो एगरायवासी एगं च दुगं च अन्नाए"[] जिनकल्पिकयथालन्दिकशुद्धपरिहारकास्तु ज्ञाता अज्ञाताश्च मासमिति । तथाऽपवादस्य - उत्सर्गापेक्षयाऽपकृष्टवादस्य त्यागः-परिहारः, न हि निरपेक्षो यतिः सापेक्षयतिरिवोत्सर्गासिद्धावपवादमपि समालम्ब्याल्पं दोषं बहुगुणं च कार्यमारभते, किन्तूत्सर्गप्राप्तं केवलगुणमयमेवेति । अत एव शरीरे -देहेऽप्रतिकर्मता, तथाविधग्लानाद्यवस्थायामपि प्रतिकारराहित्यम् ।
तथा देशनायां-धर्मकथारूपायां धर्मं श्रोतुमुपस्थितेष्वपि तथाविधप्राणिष्व
१. P.C. I आगमः स एव-मु० ॥ २. स-P. नास्ति ।।
D:\new/d-3.pm53rd proof