________________
७७६ ]
"पडिबद्धा इअरे वि अ, इक्किक्का ते जिणा य थेरा य । अत्थस्स उ देसमी, असमत्ते तेसि पडिबंधो" ॥१॥
[ धर्मसंग्रहः- चतुर्थोऽधिकारः
[पञ्च.१५४२, बृ.क.भा. १४४०, प्रव. ६१८ ] सम्पूर्णसूत्रार्थग्रहणं विना तत्कल्पप्रतिपत्तिस्तु लग्न- चन्द्रबलादिषु झगित्यागतेषु अन्येषु च दूरवर्त्तिषु भवति, ततस्तं कल्पं प्रतिपद्य गुर्वधिष्ठितक्षेत्राद्बहिः स्थिता व विशिष्टक्रियायुक्ता अगृहीतमर्थं गृह्णन्ति, तत्र चायं विधिः - यदुताचार्यः स्वयं तत्र गत्वा तेभ्योऽर्थशेषं ददातीति, अर्थग्रहणार्थं क्षेत्रे तेषामागच्छतां तु दोषाः स्युः । तथाहिवन्दमानान् गच्छवासिसाधून् ते न प्रतिवन्दन्ते ततो लोके गर्हा भवति, यदुतैते अलोकज्ञाः, यद्वा परे शीलरहिता इति तेषां पुनरियं स्थितिर्यदाचार्यं मुक्त्वाऽन्यस्य साधोर्न नमन्ति, गच्छ्वासिनस्तु महान्तोऽपि तान् वन्दन्ते इति । अथ क्षीणजङ्घाबल आचार्यस्तत्र गन्तुं यदि न शक्नुयात् तदा यथालन्दिकोऽन्तरपल्लीमागच्छति, तत्राचार्य आगत्यार्थं दत्ते, सायं च मूलक्षेत्रमायाति, अन्तरपल्ली च मूलक्षेत्रात् सार्द्धद्विगव्यूतस्थो ग्रामः, तत्राप्यागन्तुमशक्ते आचार्ये प्रतिवृषभग्रामं यथालन्दिक एति, प्रतिवृषभग्रामश्च मूलक्षेत्राद् द्विगव्यूतस्थं क्षेत्रं तत्राप्यागन्तुमशक्नुवति आचार्ये मूलक्षेत्रबहिः प्रदेशे एति, तत्राप्यशक्ते मूलक्षेत्र एवान्यवसतौ, तत्रापि गमनाशक्तौ मूलवसतावायाति यथालन्दिक इति । तस्मै आचार्यः शेषार्थं दत्ते । एवं गृहीतार्थास्ते गच्छेऽप्रतिबद्धा विहरन्तीति सूत्रविषयो विशेषः । तथा द्विविधा अप्येते ऋतुबद्धे काले यत्र विस्तीर्णग्रामादौ स्थितास्तं गृहपङ्क्तिरूपाभिः षड्भिर्वीथीभिः परिकल्प्यैकैकस्यां वीथ्यां पञ्च पञ्च दिनानि भिक्षामटन्ति, तत्रैव च वसन्ति, एवं षड्भिर्वीथीभिः एकस्मिन् ग्रामे मासः पूर्णो भवति, तथाविधविस्तीर्णग्रामाभावे तु निकटतमेषु षट्सु ग्रामेषु पञ्च पञ्च दिवसान् वसन्ति । उक्तं च कल्पभाष्ये -
D:\new/d-3.pm5\3rd proof
-
"एक्केक्कं पंचदिणे, पणएण य निट्ठिओ मासो" [ ]त्ति, गच्छप्रतिबद्धानां च यथालन्दिकानां सक्रोशयोजनलक्षणः क्षेत्रावग्रहः आचार्याणामाभवति । तदुक्तम् - " गच्छे पडिबद्धाणं, अहलंदीणं तु अह पुण विसेसो ।
उग्गह जो तेसिं तु, सो आयरिआण आभवइ" ॥१॥[ प्रव./६१६ ] इति । अप्रतिबद्धानां तु जिनकल्पिकवत् क्षेत्रावग्रहो नास्तीति । तथा जिनकल्पिकाश्च यथालन्दिका नियमान्निष्प्रतिकर्मशरीराः, स्थविरकल्पिकास्तु यथालन्दिका व्याधिग्रस्तं १. L.P.C. । पञ्चवस्तु–बृहत्कल्पभाष्ययोश्च । णसमत्ते - मु० ॥ २. L. P. C. । ते[न] न-मु० ॥