SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ यथालन्दिकस्वरूपम् - श्लो० १५४ ॥ ] [ ७७५ गुरुतरदोषादिति♠ १६। कारणद्वारे कारणं नामालम्बनं तच्च सुपरिशुद्धं ज्ञानादिकं, तदस्य न विद्यते, निरपवादत्वादनालम्बन एवायम् १७। निष्प्रतिकर्मताद्वारेऽक्षिमलाद्यपि नापनयत्यसौ महात्मा १८। भिक्षाद्वारे पथद्वारे च भिक्षाविहारक्रमश्चास्य तृतीयपौरुष्यां भवति, शेषासु प्रायः कायोत्सर्गः, अल्पा च निद्रा, जङ्घाबलक्षयेऽपि नापवादसेवनं, किन्त्वविहरतोऽपि तत्रैव यथाकल्पं स्वीययोगविधानम् १९ - २० इति परिहारविशुद्धिकस्वरूपम् २। अथ यथालन्दिकस्वरूपमुच्यते - तत्र लन्दशब्देन समयपरिभाषया काल उच्यते, स च कालस्त्रेधा –जघन्यादिभेदात्, तत्र उदकार्द्रः करो यावता कालेन इह सामान्येन लोके शुष्यति तावान् कालविशेषो भवति जघन्यः, जघन्यत्वं चास्य प्रत्याख्याननियमविशेषादिषु विशेषत उपयोगित्वाद्, अन्यथाऽतिसूक्ष्मस्यापि समयादिलक्षणस्य कालस्य सम्भवात् । उत्कृष्टः पूर्वकोटिप्रमाणः, अयमपि चारित्रकालमाश्रित्य, अन्यथा पल्योपमादिरूपस्यापि कालस्य सम्भवात्, , शेषः सर्वोऽपि मध्यमः । अत्र पुनः पञ्चरात्रं यथालन्दमुत्कृष्टं भवति, तेनैवात्रोपयोगात्, यस्मात् पेटार्द्धपेटाद्यन्यतमायां वीथ्यां भैक्षनिमित्तं पञ्चरात्रिन्दिवान्यटन्ति तस्माद् भवन्ति यथालन्दिनः विवक्षितयथालन्दभावात्, तथास्य पञ्चपुरुषप्रमाणो गच्छो भवेत्। तदुक्तम् – "जम्हा उ पंचरत्तं, चरंति तम्हा उ हुंतिऽहालंदी | पंचेव होइ गच्छो, तेसिं उक्कोसपरिमाणं" ॥१॥ [पञ्च. / १५४० ] इति । यथालन्दिमर्यादा च सर्वापि जिनकल्पिसदृशैव, नवरं सूत्रे भिक्षायां मासकल्पे च नानात्वं । यतः - "जा चेव य जिणकप्पे, मेरा सा चेव लंदिआणं पि । नाणत्तं पुण सुत्ते, भिक्खायरिमासकप्पे अ" ॥१॥[ पञ्च.१५४१,बृ.क.भा.१४३९ ]इति । यथालन्दिका हि द्विविधाः, गच्छे प्रतिबद्धा अप्रतिबद्धाश्च, एकैका अपि ते द्विविधाः, जिनाः स्थविराश्चेति, तत्र भूयो ये जिनकल्पं प्रतिपत्स्यन्ते ते जिना:, ये तु स्थविरकल्पमेव ते स्थविरा इति, गच्छे प्रतिबन्धश्चास्यार्थस्यैव देशेऽसमाप्ते सति, अन्यथा जिना इंव स्युरिति । तदुक्तम् - १. तच्च ज्ञानादिकं तदसौ नाऽऽलम्बते निरपवादत्वादेतत्कल्पस्य १७ - P. ॥ २. P. । प्राय:मु० C. नास्ति । बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १४२४ । ३. बृहत्कल्पभाष्ये [गा० १४३८ तः ] द्रष्टव्यम् ॥ ४. एव - P. C. I D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy