________________
७७४]
[धर्मसंग्रह:-चतुर्थोऽधिकारः महाविदेहे तेषामसम्भवात् २। चारित्रद्वारे चास्य चारित्रं परिहारविशुद्धिकमेव, तत्संयमस्थानानि आद्यचारित्रद्वयासंख्यातसंयमस्थानेभ्य ऊर्ध्वमसंख्यातसंयमस्थानान्यतिक्रम्यासंख्यानि भवन्ति २। तीर्थद्वारे नियमा तीर्थे न पुनर्व्यवच्छिन्नं अनुत्पन्ने वा जातिस्मरणादिना ४। पर्यायद्वारे गृहस्थपर्यायो जघन्यत एकोनत्रिंशद्वर्षाणि, यतिपर्यायश्च विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटिप्रमाणौ ५। आगमद्वारे पूर्वश्रुतमसौ नाधीते, गृहीतोचितयोगाराधनत एव कृतार्थत्वात् , प्रागधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः स्मरति ६। वेदद्वारे प्रवृत्तिकाले पुं-नपुंसकौ वेदौ स्तः, स्त्रियास्तत्प्रतिपत्त्यसम्भवात् , प्राक् प्रतिपन्न: सवेदोऽवेदो वा भवेत् ७। कल्पद्वारे स्थितकल्प एवायं नास्थितकल्पे ८। लिङ्गद्वारे नियमात् द्रव्यभावरूपलिङ्गद्वये भवति, न त्वन्यतरस्मिन् ९। लेश्याद्वारे शुद्धासु तिसृष्वेनं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नस्तु षट्स्वपि भवति १०। ध्यानद्वारे धर्मध्यानेन प्रवर्द्धमानेनैतत्प्रतिपद्यते, पूर्वप्रतिपन्नस्तु आर्त्त-रौद्रयोरपि भवति, परं प्रायेण निरनुबन्धः ११। गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतशंख्याः, पूर्वप्रतिपन्नास्तु द्विधापि शतशः, पुरुषगणनया जघन्यतः सप्तविंशतिरुत्कर्षतः सहस्रं, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः, उत्कर्षतः सहस्रशः, यदा च कल्पमध्यादेको निर्गच्छति अन्यश्च प्रविशति तदा एक: पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया प्राप्यते १२। अभिग्रहद्वारे द्रव्याद्यभिग्रहा अस्य न भवन्ति, एतत्कल्पस्यैवाभिग्रहरूपत्वात् १३। प्रव्रज्याद्वारे मुण्डनद्वारे च नासावन्यं प्रव्राजयति मुण्डयति च१४ *उपदेशं पुनः करोति, ध्रुवप्रव्रजनशीलं विज्ञाय प्रहिणोति च संविग्नसाधुपाā* १५। मनसाऽऽपन्नेऽपि तस्यानुद्घात इति द्वारे मनसा सूक्ष्ममप्यतिचारमापन्नस्य सर्वजघन्यं चतुर्गुरुकं प्रायश्चित्तम् Aअस्यैकाग्रताप्राधान्यात् , तद्भङ्गे च
१. तीर्थद्वारे एतत्तपा नियमतस्तीर्थे वर्तमान एव, न तु तस्य विच्छेदे [न] (देना C.) अनुत्पत्त्यां वा तदभावे जातिस्मरणादिना ४-मु० C. ॥ २. P. सं० । यतिपर्यायो-मु० C. ॥ ३. P. । श्रुत मु० C. नास्ति । बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १४२० ॥ ४. वा उपशमश्रेण्यपेक्षया ज्ञेयः ७-P. ।। ५. C.P. I [न] भवति-मु० ॥ ६. प्रतिपत्ता शुद्धाष्वेव, पूर्व-P. ॥ ७. प्रतिपत्ता धर्म' P. || ८. बृहत्कल्पे तु इत्थम्"सत्तावीस जहन्ना, सहस्स उक्कोसतो उ पडिवत्ती । सयसो सहस्ससो वा, पडिवन्ना जहन्न उक्कोसा ॥१४३६॥ सप्ता(प्त)विंशतिः पुरुषा जघन्यतोऽस्य कल्पस्य प्रतिपतिं कुर्वन्ति, त्रिषु नवकगणेषु सप्ता(प्त)विशतेर्जनानां भावात् । उत्कर्षतः सहस्रपृथक्त्वम् । पूर्वप्रतिपन्नास्तु जघन्यतः 'शतशः' शतपृथक्त्वम् , उत्कर्षतः 'सहस्रशः' सहस्रपृथक्त्वम्" ॥१४३६॥ ९. P. । चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति । बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १४२३ ।। १०. P. । प्रायश्चित्तद्वारे मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियम(म C. नास्ति)तश्चतुर्गुरुकं-मु० C. ॥ ११. AA चिह्नद्वयमध्यवर्तीपाठः P. नास्ति ।।
D:\new/d-3.pm5\3rd proof