________________
[ धर्मसंग्रहः-चतुर्थोऽधिकारः केवलपडिसेहभावाओ” [ ] इति वचनात् ३, कल्पद्वारे स्थितकल्पे अस्थितकल्पे च भवति ८, लिङ्गद्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्यभावरूपे लिङ्गे भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव द्रव्यलिङ्गे तु भाज्यो, हृतजीर्णतादिभिः कदाचिद् द्रव्यलिङ्गस्याभावात्, गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः शतपृथक्त्वं पूर्वप्रतिपन्नास्तु द्विधापि सहस्रपृथक्त्वमेवेत्यादि जिनकल्पिस्वरूपम् ।
७७२]
अथ पारिहारिकस्वरूपं प्रोच्यते - पारिहारिका निर्विशमानका निर्विष्टकायिकाश्चेति द्विविधाः, तत्राद्या विवक्षिततपोविशेषसेवकाः, निर्विष्टकायिका आसेवितविवक्षिततपोविशेषाः, इह च नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिण एकः कल्पस्थितो वाचनाचार्यः, यद्यपि सर्वेऽपि श्रुतातिशयसम्पन्नास्तथापि कल्पत्वात् तेषामेक कश्चित् कल्पस्थितोऽवस्थाप्यते । तेषां च पारिहारिकाणां निर्विशमानकानां तपस्त्रिधा - जघन्यं मध्यममुत्कृष्टं चेति, तच्च त्रिविधमपि ग्रीष्मकाले यथाक्रमं चतुर्थं षष्ठमष्टमं च भवति, शिशिरे च षष्ठमष्टमं दशमं च, वर्षाकाले चाष्टमं दशमं द्वादशं चेति, पारणके च त्रिष्वपि कालेष्वाचाम्लम्, भिक्षाग्रहणं च प्राग्वत्, इदं चतुर्णां पारिहारिकाणां तपः, तु कल्पस्थितादयः पञ्च ते प्रागुक्तभिक्षाभिग्रहयुक्ताः सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति । एवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरा भवन्ति, अनुचरकाश्च पारिहारिका भवन्ति, यावदपरे षण्मासाः, ततो मासद्वादशकानन्तरं वाचनाचार्योऽपि षण्मासान् पारिहारिकतपः करोति, शेषाणां चाष्टानां मध्ये सप्त वैयावृत्त्यकरा भवन्ति, एकस्तु वाचनाचार्य इति । एवमष्टादशमासप्रमाणोऽयं कल्पो भवति । ततः कल्पसमाप्तौ तमेव कल्पं जिनकल्पं वा प्रयान्ति गच्छं वाऽनुसरन्ति ।
परिहारविशुद्धिका हि द्विविधाः - इत्वरा यावत्कथिकाश्च तत्र ये कल्पसमाप्त्यनन्तरं कल्पं गच्छं वा यान्ति ते इत्वरा, जिनकल्पप्रतिपत्तारस्तु यावत्कथिकाः, इह चेत्वराः कल्पमाहात्म्यादनुपसर्गा अनातङ्काश्च भवन्ति, यावत्कथिकास्तु जिनकल्पिकवत् ज्ञेयाः,
१. L.P. । अस्थितकल्पे च - मु० C. नास्ति । बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १४२१ ॥ २. अत्र P. प्रतौ जिनकल्पिक स्वरूपनिरूपणावसरे सप्तविंशतिरपि द्वाराणि वर्णितानि ततः परिहारविशुद्धिवर्णनावसरे लिखितम्- 'तत्प्ररूपणार्थं च क्षेत्रादिद्वाराणि दर्श्यन्ते, तत्र तीर्थ ४ पर्याया ५ ऽऽगम ६ वेद ७ लेश्या १० ध्याना ११ ऽभिग्रह १३ प्रव्राजना १४ मुण्डापना १५ प्रायश्चित्त १६ निष्प्रतिकर्मता १७ कारण १८ भिक्षापथ १९ द्वाराणि जिनकल्पिकवदवसेयानि शेषाणि तु भाव्यन्ते' इति ॥
D:\new/d-3.pm5\3rd proof