Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
७७०]
[धर्मसंग्रह:-चतुर्थोऽधिकारः प्रतिवसन्नुपध्याहारविषये द्विविधे परिकर्मणि प्रवर्त्तते, तत्र यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, यदि च सा नास्ति तदा प्रतिग्रहधारित्वपरिकर्मणि यथायोगं परिवर्त्तते, आहारपरिकर्मणि तु तृतीयपौरुष्यामवगाढायां वल्ल-चणकादिकं मितं प्रान्तं रूक्षं चोद्धृतादिपञ्चानां पिण्डैषणानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरया पानकमिति ।
एवं विधिनाऽऽत्मानं परिकर्म्य सकलमपि सङ्ख मीलयित्वा क्षमयित्वा च सर्वसाधून् दत्त्वा च निजपदे व्यवस्थापितसूरेरनुशास्ति तीर्थकृतः समीपे तदभावे गणधरस्य, तेदभावे चतुर्दशपूर्वधरस्य, तस्याप्यभावे दशपूर्वधरस्य, तदभावे तु वटा-ऽशोकादितरूणामधो महाविभूत्या जिनकल्पं प्रतिपद्यते, सामाचार्याश्चास्य आवश्यिकी-नषेधिकी-मिथ्यादुष्कृतगृहिविषयपृच्छोपसंपल्लक्षणाः पञ्च भवन्ति, अन्ये त्वाहुः -आवश्यिकी-नैषेधिकीगृहस्थोपसंपल्लक्षणास्तिस्त्र एव, आरामादिनिवासिन ओघतः पृच्छादीनामप्यसम्भवात् ।
अत्र प्रागुक्तैः श्रुतादिभिः सप्तविंशत्या द्वारैरस्य मर्यादा प्रदर्श्यते, तद्यथा-श्रुतसंपच्चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु , तत्र कालज्ञानं भवति, उत्कर्षतस्तु भिन्नदशपूर्वाणि *सम्पूर्णदशपूर्वधरः पुनरमोघवचनतया प्रवचनप्रभावनापरोपकारादिद्वारेण च बहुतरं निर्जरालाभमासादयतीत्यतो नासौ जिनकल्पं प्रतिपद्यते* १, संहननं चाद्यमेव भवति, धृत्या च वज्रकुड्यसमानम् २, उपसर्गाश्च दिव्यादयोऽस्य भवन्ति न वा, यदि पुनर्भवन्ति तदाऽव्यथितो विसहते तान् ३, एवमातङ्कमपि आगतमसौ निष्प्रतिकर्मशरीर: सहते न तु चिकित्सां कारयति ४, वेदना च द्विविधापि तस्य भवति ५, वसत्यादौ चैक एवासौ निरपेक्षतया भावतो भवति, द्रव्यतस्त्वनेकोऽपि भवति, एकवसतावुत्कर्षत: सप्तानां सम्भवात् ६, उच्चारप्रश्रवणजीर्णवस्त्राणां च व्युत्सर्जयनमसावनापाताऽसंलोकादिदशगुणोपेत एव स्थण्डिले करोति Xसंज्ञां च व्युत्सृज्य रूक्षभोजित्वेन अल्पाऽभिन्नवर्चस्कतया तथाकल्पत्वाच्च न निर्लेपयति ७, वसतिपरिकर्म च एकां प्रमार्जनां मुक्त्वा अन्यन्न कुरुते ८, तथा यस्यां वसतौ याच्यमानायां तत्स्वामी इत्थं भणति -कियच्चिरं कालं यूयं वत्स्यथ ९, उच्चारादीनि [पुरीष-प्रश्रवणादीनि] अत्र कार्याणि अत्र च न १०, ११, अत्र अवकाशे आस्तव्यम् अत्र
१. L.P. संशो० । परिकर्मयित्वा मु० C.P. मूल ॥ २. च तदभावे च चतु० C. ॥ ३. द्रष्टव्यं बृहत्कल्पभाष्यं गा० १३८०तः ॥ ४. * * चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति, L.P. बृहत्कल्पवृत्तौ गा० १३८५ अस्ति ॥ ५.xx चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति, L.P. अस्ति । बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १३८९तः ॥
D:\new/d-3.pm5\3rd proof

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446