SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ७७०] [धर्मसंग्रह:-चतुर्थोऽधिकारः प्रतिवसन्नुपध्याहारविषये द्विविधे परिकर्मणि प्रवर्त्तते, तत्र यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, यदि च सा नास्ति तदा प्रतिग्रहधारित्वपरिकर्मणि यथायोगं परिवर्त्तते, आहारपरिकर्मणि तु तृतीयपौरुष्यामवगाढायां वल्ल-चणकादिकं मितं प्रान्तं रूक्षं चोद्धृतादिपञ्चानां पिण्डैषणानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरया पानकमिति । एवं विधिनाऽऽत्मानं परिकर्म्य सकलमपि सङ्ख मीलयित्वा क्षमयित्वा च सर्वसाधून् दत्त्वा च निजपदे व्यवस्थापितसूरेरनुशास्ति तीर्थकृतः समीपे तदभावे गणधरस्य, तेदभावे चतुर्दशपूर्वधरस्य, तस्याप्यभावे दशपूर्वधरस्य, तदभावे तु वटा-ऽशोकादितरूणामधो महाविभूत्या जिनकल्पं प्रतिपद्यते, सामाचार्याश्चास्य आवश्यिकी-नषेधिकी-मिथ्यादुष्कृतगृहिविषयपृच्छोपसंपल्लक्षणाः पञ्च भवन्ति, अन्ये त्वाहुः -आवश्यिकी-नैषेधिकीगृहस्थोपसंपल्लक्षणास्तिस्त्र एव, आरामादिनिवासिन ओघतः पृच्छादीनामप्यसम्भवात् । अत्र प्रागुक्तैः श्रुतादिभिः सप्तविंशत्या द्वारैरस्य मर्यादा प्रदर्श्यते, तद्यथा-श्रुतसंपच्चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु , तत्र कालज्ञानं भवति, उत्कर्षतस्तु भिन्नदशपूर्वाणि *सम्पूर्णदशपूर्वधरः पुनरमोघवचनतया प्रवचनप्रभावनापरोपकारादिद्वारेण च बहुतरं निर्जरालाभमासादयतीत्यतो नासौ जिनकल्पं प्रतिपद्यते* १, संहननं चाद्यमेव भवति, धृत्या च वज्रकुड्यसमानम् २, उपसर्गाश्च दिव्यादयोऽस्य भवन्ति न वा, यदि पुनर्भवन्ति तदाऽव्यथितो विसहते तान् ३, एवमातङ्कमपि आगतमसौ निष्प्रतिकर्मशरीर: सहते न तु चिकित्सां कारयति ४, वेदना च द्विविधापि तस्य भवति ५, वसत्यादौ चैक एवासौ निरपेक्षतया भावतो भवति, द्रव्यतस्त्वनेकोऽपि भवति, एकवसतावुत्कर्षत: सप्तानां सम्भवात् ६, उच्चारप्रश्रवणजीर्णवस्त्राणां च व्युत्सर्जयनमसावनापाताऽसंलोकादिदशगुणोपेत एव स्थण्डिले करोति Xसंज्ञां च व्युत्सृज्य रूक्षभोजित्वेन अल्पाऽभिन्नवर्चस्कतया तथाकल्पत्वाच्च न निर्लेपयति ७, वसतिपरिकर्म च एकां प्रमार्जनां मुक्त्वा अन्यन्न कुरुते ८, तथा यस्यां वसतौ याच्यमानायां तत्स्वामी इत्थं भणति -कियच्चिरं कालं यूयं वत्स्यथ ९, उच्चारादीनि [पुरीष-प्रश्रवणादीनि] अत्र कार्याणि अत्र च न १०, ११, अत्र अवकाशे आस्तव्यम् अत्र १. L.P. संशो० । परिकर्मयित्वा मु० C.P. मूल ॥ २. च तदभावे च चतु० C. ॥ ३. द्रष्टव्यं बृहत्कल्पभाष्यं गा० १३८०तः ॥ ४. * * चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति, L.P. बृहत्कल्पवृत्तौ गा० १३८५ अस्ति ॥ ५.xx चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति, L.P. अस्ति । बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १३८९तः ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy