________________
निरपेक्षयतिधर्मस्वरूपम् -श्लो० १५४॥]
[७६९ स्वल्पे स्वायुषि प्रागुक्तमन्यतरं मरणमङ्गीकरोति, अथ दीर्घायुः परं जवाबलं क्षीणं, तदा वृद्धवासं स्वीकुरुते, पुष्टायां तु शक्तौ जिनकल्पाद्यभ्युद्यतविहारं भजते, तत्रादौ गण्यादीनां स्वयोग्यविषयाः तुलना चेत्थम् -गणिनां परिमितकालो गणनिक्षेपो भवति, यो वा यत्रोपाध्यायादिस्थाने स्थितः स इत्वरं तत्पदमात्मसमस्यान्यस्य साधोः निक्षिपति परीक्षार्थं, पश्यामस्तावदेते अभिनवाचार्यादयः कीदृशा भवन्ति ?, अस्य स्थानस्योचिता न वेति, यतो योग्यानामपि प्रायेण प्रस्तुतस्य निर्वहणं दुष्करं भवति । तदुक्तम् - "गणणिक्खेवेत्तरिओ, गणिस्स जो वा ठिओ जहिं ठाणे।
सो तं अप्पसमस्स उ णिक्खिवई इत्तरं चेव ॥१॥[पञ्च./१३७९] पिच्छामु ताव एए, केरिसया हुंतिमस्स ठाणस्स । जोग्गाण वि पाएणं, निव्वहणं दुक्करं होइ" ॥२॥ [ पञ्च./१३८० ] इति ।
ततः पञ्चभिस्तुलनाभिरात्मानं तोलयति - "तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवज्जओ" ॥१॥[बृ.क.भा.१३२८,प्रव.४९९] इति ।
तत्र तपसाऽऽत्मानं तथा भावयति यथा देवाद्युपसर्गादिनाऽनेषणीयादिकरणतः षण्मासान् यावदाहारालाभेऽपि क्षुधया न बाध्यते, सत्त्वभावनया च भयं निद्रां च पराजयते, सा च पञ्चधा, तत्राद्या रात्रौ सुप्तेषु सर्वेषु साधुषु वसतावेव कायोत्सर्गं कुर्वतो भवति, द्वितीयास्तूपाश्रयबाह्यादिप्रदेशेषु । आह च - "पढमा उवस्सयंमी, बीआ बाहिं तिआ चउक्कंमि। सुन्नघरंमि चउत्थी, अह पंचमिआ मसाणंमि" ॥१॥[पञ्च.१३९५, बृ.क.भा.१३३५ ]
सूत्रभावनया तु निजनामवत् तथा परिचितं सूत्रं करोति यथा दिवा रात्रौ वा शरीरच्छायाद्यभावेऽप्युच्छास-प्राण-स्तोक-लव-मुहूर्त्तादिकं कालं सूत्रपरावर्तानुसारेणैव सर्वं सम्यगवगच्छति, एकत्वभावनया चात्मानं भावयन् गुर्वादिषु दर्शनालापादि पूर्वं परिहरति, ततो बादरममत्वे मूलत एव विच्छिन्ने देहोपध्यादिभ्योऽप्यात्मानं भिन्नमवलोकयन् सर्वथा तेषु निरभिष्वङ्गो भवति, बलभावनायां शारीरं मानसं चेति द्विविधं बलम् , तत्र शारीरं शेषजनेभ्योऽतिशायिकमेष्टव्यं, तदभावेऽपि धृतिबलेन तथाऽऽत्मानं भावयति तथा महद्भिरपि परीषहोपसर्गर्न बाध्यते, एताभिर्भावनाभिर्भावितात्मा जिनकल्पप्रतिरूपो गच्छ एव
१. तद्यथा-तवेण-L.P. ॥
D:\new/d-3.pm5\3rd proof