________________
[चतुर्थोऽधिकारः] साम्प्रतं निरपेक्षयतिधर्मप्रस्तावनाय तद्योग्यतामाह -
प्रमादपरिहाराय, महासामर्थ्यसंभवे ।
कृतार्थानां निरपेक्षयतिधर्मोऽतिसुन्दरः ॥१५४॥ 'महासामर्थ्यम्' आद्यसंहननत्रययुक्ततया वज्रकुड्यसमानधृतितया च कायमनसोः शक्तिः तस्य 'संभवे' विद्यमानत्वे 'प्रमादपरिहाराय' प्रागुक्ताष्टविधप्रमादत्यागाय 'कृतार्थानां' कृतकृत्यानाम् आचार्योपाध्याय-प्रवर्तक-स्थविर-गणावच्छेदकलक्षणपदपञ्चकयोग्यतया शिष्याणां निष्पादनेन निष्ठितार्थानामित्यर्थः 'निरपेक्षयतिधर्मो' गच्छनिर्गतयतिधर्म: ‘अतिसुन्दरः' अतिशयेन श्रेयान् , प्रमादजयार्थं कृतकृत्यानामाचार्यादीनाम् अयमतिश्रेष्ठ इत्यर्थः । ____ अत्रेदमवधेयम् –निरपेक्षा यतयो जिनकल्पिकाः शुद्धपारिहारिका यथालन्दिकाश्च, तत्र जिनानामिव कल्पो जिनकल्पः -उग्रविहारविशेषस्तेन चरन्तीति जिनकल्पिकाः १, परिहारः -तपोविशेषस्तेन चरन्तीति पारिहारिकाः शुद्धाश्च ते पारिहारिकाश्चेति समासः २, यथालन्देन -प्रकृतकल्पानुरूपकालविशेषेण चरन्तीति यथालन्दिकाः ३, प्रतिमाकल्पोऽपि निरपेक्ष एव, परं प्रागुक्तत्वादिह नोक्तः, इह तु त्रय एव विवक्षितास्तद्धर्मेऽधिकारिणश्च प्रायो गण्यादयः पञ्च पुरुषाः । तदुक्तं पञ्चवस्तुके -
"गणिउज्झायपवित्ती, थेरगणावच्छेया इमे पंच ।
पायमहिगारिणो इह, तेसि इमा होइ तुलणा उ" ॥१॥[पञ्च./१३७८ ] तत् प्रतिपित्सुना प्रथममेव पूर्वापररात्रे तावदिदं चिन्तनीयम् 'अनुपालितो दीर्घपर्यायः, वाचना चोचितेभ्यो दत्ता, निष्पादिताश्च शिष्याः, मम किं साम्प्रतं युक्तम्' इति विचिन्त्य सति ज्ञाने निजमायुःशेष स्वयमेव पर्यालोचयति, तदभावे पुनरन्यमतिशायिनं पृच्छति, तत्र
१. थेरगणच्छेइआ ॥ २. तेसिमिमा पञ्च०म० ॥ ३. तुला-बृहत्कल्पभाष्ये गा० १२८१ तः ॥
D:\new/d-3.pm53rd proof