________________
गच्छवासिनां स्थितिः -श्लो १५३॥]
[७६७ सम्भुञ्जना ५ संवासना ६ चेति षड्विधमपि सचित्तद्रव्यकल्पमाचरन्ति, उपदेशं वा दत्त्वा गच्छान्तरे प्रेषयन्ति १५, प्रायश्चित्तद्वारे मनसाऽऽपन्नेऽप्यपराधे आद्ये द्वे प्रायश्चित्ते भवतः १६, कारणद्वारे अमी ज्ञानाद्यालम्बनेऽपवादसेविनोऽपि स्युः १७, प्रतिकर्मद्वारे निष्कारणेऽप्रतिकर्मशरीराः, कारणे तु ग्लानमाचार्यं वादिनं धर्मकथिकं च प्रतीत्य पादधावनमुखमार्जनशरीरसम्बाधनादिकरणेन सप्रतिकर्माणः १८, भक्तपथभजनाद्वारे अमी उत्सर्गतस्तृतीयपौरुष्यां भिक्षाटनं विहारं च कुर्वन्ति, कारणे तु शेषास्वापि पौरुषीषु १९, इति स्थविरकल्पिकस्थितिः कल्पभाष्यानुसारेणावसेया] ॥१५३।।
इति परमगुरुभट्टारकश्रीविजयानन्दसूरिशिष्यमुख्यपण्डितश्रीशान्तिविजयगणिचरणसेविमहोपाध्यायश्रीमानविजयगणिविरचितायां स्वोपज्ञधर्मसंग्रह
वृत्तौ सापेक्षयतिधर्मव्यावर्णनो नाम तृतीयोऽधिकारः ।
१. L.P. । बृहत्क०वृत्तौ च गा० १६५४ । कर्माच मु० ॥ २. L.P. | बृहत्कल्पवृत्तौ च प० ४८७ । वादिनं-मु० नास्ति ।। ३. L.P. बृहत्कल्पवृत्तौ च प० ४८७ । संवाहना मु० ॥ ४. इतोऽग्रे मु० मध्ये इयान् पाठ दृश्यते । हस्तप्रतिषु तु नास्त्येव -
["यथालन्दिकस्वरूपे क्षेत्रे कालचारित्रे च जिनवदिति १-२-३] तीर्थद्वारे नियमात्तीर्थे न पुनर्व्यवच्छिन्नेऽनुत्पन्ने वा जातिस्मरणादिना ४, पर्यायद्वारे गृहस्थपर्यायो जघन्यतः एकोनत्रिंशद्वर्षाणि यतिपर्यायश्च विंशतिः, द्वावपि उत्कर्षतो देशोनपूर्वकोटिप्रमाणो ५, आगमद्वारेऽपूर्वश्रुतमसौ नाधीते गृहीतोचितयोगाराधनत एव कृतार्थत्वात् , प्रागधीतं तु विश्रोतसिकाक्षयनिमित्तमेकाग्रमनाः सम्यग् स्मरति ६, वेदद्वारे प्रतिपत्तिकाले पुनपुंसकौ स्तः, पूर्वप्रतिपन्नस्तु सवेदोऽवेदो वोपशमश्रेण्यपेक्षया ज्ञेयः ७, कल्पद्वारे स्थितकल्पेऽस्थितकल्पे च भवति ८, लेश्याद्वारे प्रतिपत्ता शुद्धासु तिसृष्वेव, पूर्वप्रतिपन्नस्तु षट्स्वपि भवति १०, ध्यानद्वारे प्रतिपत्ता प्रवर्द्धमाने धर्मध्याने एव, पूर्वप्रतिपन्नस्तु आर्त्तरौद्रयोरपि भवति, परं प्रायेण निरनुबन्धः ११, [गणनाद्वारे......१२] अभिग्रहद्वारे द्रव्याद्यभिग्रहा अस्य न भवन्ति, एतत्कल्पस्यैवाभिग्रहरूपत्वात् १३, प्रव्रज्यामुण्डापनाद्वारे च नासावन्यं प्रव्राजयति मुण्डापयति च उपदेशं पुनः करोति, प्रव्रजनशीलं विज्ञाय प्रहिणोति च संविग्नसाधुपार्वे १४-१५, मनसापन्नेऽपि तस्यानुद्घात इति द्वारे मनसा सूक्ष्ममतिचारमापन्नस्य सर्वजघन्यं चतुर्गुरुकं प्रायश्चित्तं १६, कारणद्वारे कारणं नामालम्बनं, तच्च ज्ञानादिकं तदसौ नालम्बते निरपवादत्वात् तत्कल्पस्य १७, निष्प्रतिकर्मद्वारेऽक्षिमलाद्यपि नापनयत्यसौ महात्मा १८, भिक्षापथद्वारे भिक्षाविहारक्रमश्चास्य तृतीयपौरुष्यामेव भवति, शेषासु च प्रायः कायोत्सर्ग० अल्पा च निद्रा, जङ्घाबलक्षयेऽपि नापवादसेवनं, किं त्वविहारतोऽपि तत्रैव यथाकल्पं स्वीययोगविधानमिति" १९, ॥
D:\new/d-3.pm5\3rd proof