SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ७६६ ] [ धर्मसंग्रहः - तृतीयोऽधिकारः कदाचिदनियता २१-२२, अन्नं पानं च लेपकृतमलेपकृतं वा आचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति २३-२४-२५-२६ प्रतिमाश्च मासिक्याद्या भेद्राद्या वा सर्वाप्यमीषामविरुद्धा २७ इति सामाचारीप्ररूपणाऽवसेया । तथैषां स्थितिरपि तत्रैकोनविंशत्या द्वारैर्विचारिता, तद्यथा - क्षेत्र १ काल २ चारित्र ३ तीर्थ ४ पर्याय ५ आगम ६ कल्प ७ वेद ८ लिङ्ग ९ लेश्या १० ध्यान ११ गणनास्तु १२, अमीषां स्थितिर्वक्तव्या अभिग्रहाश्चामीषां वक्तव्याः १३, प्रव्राजनायां १४ मुण्डापनायां च १५कीदृशी स्थितिः ?,मॅनसाऽऽपन्नेऽपराधेऽनुद्घाताश्चतुर्गुरवः १६, कारणं १७, निष्प्रतिकर्मता १८, भक्तं पन्थाश्च तृतीयपौरुष्यां भजनयेति १९ । तत्र क्षेत्रद्वारे स्थविरकल्पिका जन्मतः सद्भावतश्च पञ्चदशस्वपि कर्मभूमिषु संहरणतस्तु अकर्मभूमिष्वपि भवन्ति १, कालद्वारेऽवसप्पिण्यां द्विधापि तृतीयाद्यरकत्रिकेषु स्युः, उत्सप्पिण्यां च जन्मतो द्वितीयादिषु त्रिकेष्वरकेषु सद्भावतस्तु तृतीयचतुर्थयोरेव, नोत्सप्पिण्युत्सप्पिणीकाले च द्विधापि दुष्षमसुषमप्रतिभागे काले स्युः, संहरणतस्तु सुषमादिप्रतिभागेष्वपि २, चारित्रद्वारे प्रतिपद्यमानका आद्ययोरेव, पूर्वप्रतिपन्नास्तु सर्वेष्वपि चारित्रेषु स्युः ३, तीर्थद्वारे अमी नियमात्तीर्थे एव भवन्ति, न तु तीर्थेऽनुत्पन्ने व्यवच्छिन्ने वा ४, पर्यायद्वारेऽमीषां गृहिपर्यायो जघन्यतोऽष्टौ वर्षाणि उत्कर्षतश्च पूर्वकोटी, प्रव्रज्यापर्यायश्च जघन्यतोऽन्तर्मुहूर्तं उत्कर्षतश्च देशोना पूर्वकोटी ५, आगमद्वारेऽमीषां भजना पूर्वश्रुताध्ययनं स्यान्न वेत्यर्थः ६, कल्पद्वारे स्थिते स्थितास्थिते वा कल्पे स्युः ७, वेदद्वारे अमीषां प्रतिपत्तिकाले वेदः स्यादेव पूर्वप्रतिपन्नानां त्ववेदकत्वमपि ८, लिङ्गद्वारेऽमी द्रव्यलिङ्गे भाज्या भावलिङ्गे तु नियमात् सदैव स्युः *९ लेश्याद्वारे प्रतिपद्यमानका आद्यासु तिसृषु शुद्धासु लेश्यासु धर्मध्यानेन च प्रतिपत्तव्याः, पूर्वप्रतिपन्नास्तु षण्णां लेश्यानाम् अन्यतरस्यां आर्तादीनां च ध्यानानामन्यतरस्मिन्नपि स्युः १० - ११, *गणनाद्वारेऽमी प्रतिपद्यमानका उत्कर्षतः सहस्रपृथक्त्वं कदाचिदेकोऽपि न भवति, पूर्वप्रतिपन्नास्तु द्विधापि कोटीसहस्रपृथक्त्वम् १२, अभिग्रहद्वारे चतुर्विधा अप्यभिग्रहाः स्युः १३, प्रव्राजनामुण्डापनाद्वारे प्रव्राजना १ मुण्डापनं २ शिक्षापनम् ३ उपस्थापना ४ १. महाभद्राद्या-L. ॥ २. L. P. । अमीषां स्थितिर्वक्तव्या - मु० नास्ति बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १६३४ ॥ ३. L.P. । च १५ अमीषां स्थितिर्वक्तव्या कीदृशी - मु० ॥ ४. "मनसाऽऽपन्नेप्यपराधे नास्ति तप:प्रायश्चित्तं स्थविरकल्पिकानाम्, आलोचनाप्रतिक्रमणप्रायश्चित्ते तु तत्रापि भवत इति मन्तव्यम्” इति बृहत्कल्पवृत्तौ गा० १६५५ ॥ ५. L.P. I ** चिह्नद्वयमध्यवर्तीपाठः- मु० नास्ति बृहत्क० वृत्तिर्द्रष्टव्या गा० १६३९ ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy