SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ गच्छ्वासिनां सामाचारी - श्लो १५३ ॥ ] [ ७६५ अवकाशः १२ तृणफलकं १३ संरक्षणता १४ संस्थापनता १५ प्राभृतिका १६ ऽग्निः १७ दीपो १८ ऽवधानं १९ वत्स्यथ कतिजनाश्च २० भिक्षाचर्या २१ पानकं २२ लेपालेपः २३ तथाऽलेपश्च २४ आचाम्लं २५ प्रतिमा २६ मासकल्पश्चेति २७। एतानि च यथास्थानं भावितान्येव, विशेषस्तु प्रदर्श्यते, तद्यथा –श्रुतं गच्छ्वासिनां जघन्यतोऽष्टौ प्रवचनमातर उत्कर्षतस्तु चतुर्द्दश पूर्वाणि १, संहननेषु सर्वेषु मनसाऽवष्टम्भलक्षणया च धृत्या दुर्बला बलिनो वा २, आतङ्कानुपसर्गांश्च सहन्ते, पुष्टालम्बने तु न ३-४, एवं वेदनामपि, सा चाभ्युपगमिकी औपक्रमिकी चेति द्विविधा, तत्राद्या लोचाद्या, द्वितीया च विपाका ५, तथा वसतिस्तेषामममत्वा एकां च प्रमार्जनां मुक्त्वोपलेपनादिकर्मवर्जिता, कारणे तु सममत्वा सपरिकर्मा चापि, शैक्षादीनामभिष्वङ्गविधानात् अपरिकर्माया वसतेरभावाच्च (८) तथा जघन्यतस्त्रय उत्कर्षतश्च द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे स्युः (६) स्थण्डिले च प्रथमे गच्छन्ति आगाढे तु शेषेष्वपि (७) कियच्चिरं अस्यां वसतौ वत्स्यथेति शय्यातरेण पृष्टे निर्व्याघाते मासं सव्याघाते तु हीनमधिकं वेति ब्रुवते ९, तथोच्चारादीन् यत्र कर्त्तुमनुजानाति तत्रैव कुर्वन्ति, ग्लानादिकारणे तु मात्रकेषु व्युत्सृज्य बहिः परिष्ठापयन्ति १०-११, एवमवकाशेऽवस्थाने पात्रधावनाद्यपि, कारणे तु कमठकादिषु धावन्ति १२, तृणफलकान्यप्यनुज्ञातानि परिभुञ्जते १३, संरक्षणता नाम यत्र तिष्ठतां सागारिणो भणन्ति –गवादिभिर्भज्यमानां वसतिमन्यद्वा समीपवत्ति गृहं संरक्षत, तत्राप्यशिवादिभिः कारणैस्तिष्ठन्तो भणन्ति 'यदि वयं तिष्ठामस्ततो रक्षामः' इति, १४, संस्थापना नाम वसते: संस्कारकरणं, तस्यामपि नियुक्ता भणन्ति - वयमकुशलाः संस्थापनाकर्मणि कर्त्तव्ये १५, सप्राभृतिकायामपि वसतौ कारणतः स्थिताः स्वकीयमुपकरणं प्रयत्नेन संरक्षन्ति, यावत् प्राभृतिका क्रियते तावदेकस्मिन् पार्श्वे तिष्ठन्ति, प्राभृतिका नाम बलिः १६, सदीपायां साग्निकायां च वसतौ कारणतः स्थिता आवश्यकं बहिः कुर्वन्ति १७ - १८, अवधानं नाम यदि गृहस्थाः क्षेत्रादि गच्छन्तो भणन्ति - अस्माकमपि गृहेषूपयोगो दातव्यस्तत्रापि कारणतः स्थिताः स्वयमेवावधानं ददति, अनुपस्थापितशैक्षैर्वा दापयन्ति १९, यत्र च कति जना वत्स्यथेति पृष्टे सति कारणतस्तिष्ठन्ति परिमाणनियमश्च कृतो यथैतावद्भिः स्थातव्यं नाधिकैरिति ततोऽन्यप्राघूर्णकाभ्यागमे तेषामवस्थानाय भूयोऽप्यनुज्ञाप्यः सागारिकः यद्यनुजानाति तदा सुन्दरं, नो चेदन्यवसतौ स्थाप्यः २०, तथा भिक्षाचर्या कदाचिन्नियता १. L.P. । सर्वेषु - मु० नास्ति । बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १६२८ ॥ २. L.P. I °द्या (ज्वराद्या)-मु० । बृहत्कल्पवृत्तिः गा० १३८८ द्रष्टव्या ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy