________________
७६४]
[धर्मसंग्रह:-तृतीयोऽधिकारः विगिंचइ, वसहिं पमज्जई, जेण गया तेणेव पहेण न नियत्तियव्वं, तहा परिट्ठवणथंडिलं पमज्जिय तत्थकेसरेहि अव्वुच्छिन्नाए धाराए विवरीओ'तो' कायव्वो वायणायरिएणं, एयस्स अईओ अमुगो आयरिओ, अमुगोअईओ उज्झाओ, संजईए अमुगा अइआ पवत्तणी तिविहं तिविहेण वोसिरियमेणं' इति वारतिगंभणइ, परिठवियस्स नियत्तंतेहिं पयाहिणा न कायव्वा । स्वस्थानादेव निवर्तितव्यं, परिठविए कप्पमुत्तारित्ता महापारिद्वावणियावोसिरणत्थं काउस्सग्गं करिति, नमुक्कारंचिंतित्तु मुहेण भणंति 'तिविहंतिविहेण वोसिरियं ति।तओ पराहुत्तं पंगुरित्ता अहाराइणियक्कम परिहरित्ता तट्ठाणाओ चेइयहरं गच्छंति ।ओमत्थगरयहरणेणंगमणागमणाए आलोइंति, तओ इरियावहिया पडिक्कमिज्जइ, तओ चेइआई ओमत्थयं वंदंति, अजियसंतित्थओ पढिज्जइ, तओ ओमत्थगकम परिहरित्ता इरियं पडिक्कमिय देवे वंदिय संतित्थयं भणिय आयरियसगासे आगंतुं अविहिपारिद्वावणियाए काउस्सग्गो कीड, नवकारंचिंतित्ता मुहेणे भणंति, महिद्धियाईणं असज्झाओखमणंच कीई,न सव्वत्थ, एस सिवे विही, असिवे खमणं असज्झाओ काउस्सग्गो य अविहिविगिंचणत्थं न कीरइ" । इति महापारिष्ठापनिकाविधिः ॥१५२॥ अथोपसंहरन्नाह -
सापेक्षयतिधर्मोऽयं, परार्थकरणादिना ।
तीर्थप्रवृत्तिहेतुत्वाद् वर्णितः शिवसौख्यदः ॥१५३॥ 'अयम्' अनन्तरनिरूपितस्वरूप: 'सापेक्षयतिधर्मो' गच्छवासियतिधर्मो गुर्वन्तेवासादिसमाधिमरणपर्यवसानो 'वर्णितो' व्याख्यातः, किंफल:? इत्याह –'शिवसौख्यदः' शिवं -मोक्षस्तस्य सौख्यं -निराबाधलक्षणं ददातीति तथा, मोक्षफलक इत्यर्थः । तत्र हेतुमाह -'तीर्थे 'ति तीर्थं-चतुर्विधः श्रमणसङ्घः प्रवचनं वा तस्य प्रवृत्तिः -अविच्छेदेन स्थितिस्तस्या हेतुत्वात् –कारणत्वात् , तीर्थप्रवर्तकतया सापेक्षयतिधर्मो मोक्षफलक इति भावः । तीर्थप्रवृत्तिहेतुत्वमपि केन हेतुना ? इत्याह –'परार्थे 'ति परार्थः -परोपकारः परेषामुपदेशदानेन सम्यक्त्वादिगुणप्रापणमित्यर्थः तस्य करणं -सम्पादनम् आदिशब्दादितिकर्तव्यताग्रहस्तेन तीर्थं प्रवर्तत इति भावः [बृहत्कल्पे तु गच्छवासिनां सामाचारी सप्तविंशत्या द्वारैर्निरूपिता, तानि चामूनि -श्रुतं १ संहननम् २ उपसर्गा ३ आतङ्को ४ वेदना ५ कतिजनाः ६ स्थण्डिले ७ वसति: ८ कियच्चिरं ९ उच्चारः १० प्रश्रवणम् ११
१. इत आरभ्य कोष्ठक परिसमाप्ति यावत्पाठः C. प्रतौ नास्ति L.P. प्रत्योः विद्यते बृहत्कल्पवृत्तौ गा० १६२४ तः द्रष्टव्यम् ।।
D:\new/d-3.pm5\3rd proof