________________
जिनकल्पसामाचारी -श्लो० १५४॥]
[७७१ च न १२, इमानि च तृण-फलकानि ग्राह्याणि, न चैतानि १३, संरक्षणीया वा गवादयः १४, न च पतन्ती वसतिरुपेक्ष्या, संस्कार्या च इत्यादिनियन्त्रणां नेच्छति १५, यत्र च बलिर्दीपोऽग्निश्च क्रियते न तत्र वसति १६, १७, १८, मद्गृहे उपयोगो देय इति शय्यातरेणोक्ते न तत्र तिष्ठति १९, X [वसतिमनुज्ञापयन् यद्यसौ भण्यते 'कति जना यूयं वत्स्यथ' ? इति तत्रापि न वसति २०,] भिक्षाचर्यां ग्रामान्तरे गमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहते तत्र नियमादवतिष्ठते २१, [एवमेव पानकस्यापि तृतीयपौरुष्यां प्रगृहीतया चैषणया ग्रहणं करोति २२,] भक्तपानकं च प्रागुक्तैषणाद्वयाभिग्रहणेनालेपकृदेव गृह्णाति, *न तु लेपकृत् २३, २४ आचाम्लं चासौ न गृह्णाति, पुरीषभेदादिदोषसम्भवात् २५, प्रतिमाश्च मासिक्याद्या भद्राद्याश्च न प्रतिपद्यते, कल्पस्थितिप्रतिपालनमेव तस्य विशेषाभिग्रह इति भावः २६* मासकल्पं चातुर्मासिकं वा यत्र क्षेत्रेऽवस्थितस्तत्र षड्भागान् कल्पयित्वा एकस्मिन् दिने यत्र भागे भिक्षार्थं हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति Aअन्योन्यवीथिमपि त्यजतिA २७, सिंह-व्याघ्रादिके च सम्मुखे समापतत्युन्मार्गगमनादिना नेर्यासमिति भनक्ति इत्यादिका जिनकल्पसामाचारी कल्पग्रन्थतोऽवसेया । ____ अत्र च तत्स्थितिप्रतिपादनार्थं कानिचिद् द्वाराणि प्रदर्श्यन्ते तद्यथा क्षेत्र १ काल २ चारित्र ३ तीर्थ ४ पर्याय ५ ऽऽगम ६ वेद ७ कल्प ८ लिंग ९ लेश्या १० ध्यान ११ गणना १२ भिग्रह १३ प्रव्राजन १४ मुण्डन १५ निष्प्रतिकर्मता १६ भिक्षा १७ पथ १८ रूपाणि द्वाराणि । तत्र तीर्थ १ पर्याया २ ऽऽगम ३ वेद ४ ध्याना ५ ऽभिग्रह ६ प्रव्रज्या ७ मुण्डन ८ निष्प्रतिकर्मता ९ भिक्षा १० पथ ११ द्वाराणि परिहारविशुद्धिकद्वारे यथा वक्ष्यन्ते तथैवात्रापि ज्ञेयानि । क्षेत्रद्वारे जन्मना सद्भावेन च पञ्चदशस्वपि कर्मभूमिषु संहरणेन त्वकर्मभूमिष्वपि भवति १, कालद्वारे अवसर्पिण्यां जन्मना तृतीय-चतुर्थारकयोरेव, व्रतस्थस्तु पञ्चमारकेऽपि, उत्सपिण्यां तु व्रतस्थस्तृतीयचतुर्थारकयोरेव, जन्मना तु द्वितीयारकेऽपि, प्रतिभागकाले तु दुष्षमसुषमारूपे जन्मतः सद्भावतश्च प्राप्यते, विदेहेऽप्येषां सद्भावात् , संहरणेन पुनः सर्वस्मिन्नपि काले २। चारित्रद्वारे प्रतिपद्यमानक आद्यद्वितीययोरेव चारित्रयोः, विदेहमध्यतीर्थकृतां सामायिके, आद्यन्तिमजिनयोस्तु छेदोपस्थापनीये, पूर्वप्रतिपन्नस्तु सूक्ष्मसंपराय-यथाख्यातयोरपि, स चोपशमश्रेण्यामेव न तु क्षपकश्रेण्यां "तज्जम्मे
१. * * चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति L.P. अस्ति बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १३९८ तः ॥ २. AA चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति L.P. अस्ति बृहत्कल्पवृत्तिर्द्रष्टव्या गा० १४१२ ॥ ३. तत्स्थितिप्रतिपादनार्थं च प्रागुक्तानि द्वाराणि प्रदर्श्यन्ते तद्यथा क्षेत्रद्वारे जन्मना L.P. ॥ ४. L.P.C. I [न] त्व' मु० ॥
D:\new/d-3.pm5\3rd proof