________________
[ ६२५
'पाक्षिक'सूत्रं सविवरणम् - श्लो० ९८ ॥ ]
शेषं० २। विभक्तिव्यत्ययात् कृष्णां नीलां कापोतां चेत्येताः तिस्रो लेश्या अप्रशस्ताः परि०, शेषं० तैजसीं पद्मां शुक्लां चेत्येतास्तिस्रो लेश्याः सुप्रशस्ता उप० ३।
मनसा शुभभावरूपेण चेतसा करणभूतेन रक्षामि महाव्रतानीतियोगः । किंवि० अहं ?, मन:सत्यं मन:संयम इत्यर्थः, स चाकुशलमनोनिरोधः कुशलमनउदीरणाप्रवर्त्तनरूपस्तं वेद्मि मन:सत्यविद्वान्, एवं वाक्सत्येन कुशलाकुशलो (लवचउ) दीरणनिरोधरूपेण वाग्संयमेन करणभूतेन, तथा करणसत्येन क्रियातथ्येन कायसंयमेनेत्यर्थः, स च कार्ये यतनया गमनागमनादिविधानं तदभावे तु संलीनकरपादादेरवस्थानं यदिति । अनेन च भङ्गत्रयाभिधानेनान्यदपि द्विकसंयोगभङ्गत्रयं सूचितम्, तद्यथा - मनोवाक्सत्येन १ मनः कायसत्येन २ वाक्कायसत्येन ३ चेति त्रिविधेनापि मनोवाक्कायरूपेण सत्यविद्वान् शुद्धसंयमपालक इत्यर्थः अनेन च त्रिकसंयोगभङ्गो दर्शितः, केवलमन १ केवलवचन २ केवलकाय ३ मनोवाक् ४ मनःकाय ५ वाक्काय ६ मनोवाक्कायेन ७ इत्येवं सप्तविकल्पेन संयमेन रक्षामि ३ ।
चतस्रो दुःखशय्या द्रव्यतो दुष्टखट्वारूपा भावतस्तु दु:श्रमणतास्वभावाः प्रवचनाश्रद्धान १ परलाभार्थन २ कामाशंसन ३ स्नानादिप्रार्थनविशेषिताः, चतुरः कषायान् क्रोध-मानमाया-लोभरूपान् , चतस्रः संज्ञा आहार-भय-मैथुन - परिग्रहरूपाः परि० । चतस्रः सुखशय्या दुःखशय्याविपरीताः, चतुर्विधं संवरं मनोवाक्कायोपकरणसंवरभेदात्, समाधिं च प्रशस्तभावं ज्ञान - दर्शन - चारित्र - तपोरूपम्, उप० ४।
पञ्चैव कामगुणान् शब्दरूपरसगन्धस्पर्शरूपान्, पञ्चैव आश्नौति – आदत्ते कर्म यैस्तान् आश्नवान् आश्रवानित्यर्थः प्राणातिपातादीन् महादोषान् परि०, शेषं० । पञ्चेन्द्रियसंवरणंस्पर्शनादीन्द्रियनिग्रहणं ततः पञ्चविधमेव स्वाध्यायं - वाचनादिरूपम्, उप० शेषं० ५। षड्जीवनिकायवधं पृथिव्यादिवधम्, षड्विधभाषा अप्रशस्ता: हीलिता १ खिसिता २ परुषा ३ अलीका ४ गार्हस्थी ५ उपशामिताधिकरणोदीरण ६ भाषारूपाः, तत्र हीलिता अवज्ञागर्भा १, खिंसिता - सनिन्दा २ परुषा –गाल्यादिसहिता ३, अलीका – असत्या ४, गार्हस्थी – पितृपुत्रादिसम्बन्धयुक्ता ५, उप० - उपशमितकलहप्रवर्त्तनी ६, परि० शेषं० । षड्विधम् अभ्यन्तरं तपः कर्म - प्रायश्चित्तादिरूपम्, बाह्यमपि षड्विधं तपः कर्मअनशनादिरूपम्, उप० शेषं० ६ ।
-
D:\new/d-3.pm5\3rd proof
-
—
१. C. मूल P. पाक्षिकसूत्रवृत्तिः प० ३५B | सत्यवित्- मु० C. संशो० ॥ २. प्रायश्चित्त १ विनय २ वैयावृत्त्य ३ स्वाध्याय ४ ध्यान ५ व्युर्त्सर्गादिरूपं C. मूल ॥ ३. अनशन १ औनोदर्य २ वृत्तिसंक्षेप ३ रसत्याग ४ कायक्लेश ५ संलीनता ६ रूपं C. मूल ॥