Book Title: Dhanya Shalibhadra Mahakavyam Author(s): Purnabhadra Gani Publisher: Jindattasuri Gyanbhandar View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली KAR BElमहाकाव्यम् सगः१ ॥४ ॥ दानशौण्डकरस्तत्र. भद्रजातिः शुभोन्नतिः । इभ्यो नाम यथार्थोऽभू-नैगमः सामंजोपमः ।। ३२ ॥ भार्या तस्याभवल्लक्ष्मी-लक्ष्मीरिव मनोरमा । केवलं चञ्चला लक्ष्मीः, सा प्रकृत्या स्थिरा सदा ॥३३॥ धनचन्द्रो धनसारो, धनदेवो धनावहः । स्तम्भा इव गृहाधारा-श्चत्वारः सूनवस्तयोः ॥ ३४ ॥ धनश्रीसुन्दरीभद्रा, सुनन्दानां निजाङ्गजान् । समयौवनरूपाणां पाणिमग्राहय्यत्पिता ॥ ३५॥ इतश्च नगरे कापि, कोप्यभूत्कुलपुत्रकः । सभार्यः साङ्गजन्मा च, स्वकर्मनिरतः सुखी ॥ ३६॥ अथानित्यस्वभावत्वा-संसारे वस्तुसन्ततेः । मृत्युपर्यवसानत्वा-दुत्पन्नानां शरीरिणाम् ।। ३७ ॥ कर्मणां च विचित्रत्वा-दसाध्यव्याधियोगतः । पश्यतामपि बन्धूनां, विपेदे कुलपुत्रकः ॥ ३८ ॥ ततः सा मृतकृत्यानि, चकारात्यन्तदुःखिता । कालेन च विशोकाभू-संसारस्थितिरीदृशी ॥३९॥ तथापि पत्यभावेन, सूनोरपि लघुत्वतः । अपूर्वोपार्जनाभावात् , पूर्ववित्तव्ययादपि ॥ ४० ॥ लक्ष्मीणां चंचलत्वेन, प्रक्षीणविभवा सती । बन्धुभिः परिभूता सा चिन्तयामास चेतसि ॥ ४१॥ तिष्ठद्भिः प्राप्यते यत्र, बन्धुभ्योपि पराभवः । न तत्र युज्यते स्थातु-मभिमानवतामिति ॥ ४२ ॥ ततः सा तत्पुरं हित्वा, शीघ्रमेव स्वमङ्गजम् । जीवितव्यमिवादाय, सुप्रतिष्ठितमाययो । ४३॥ तत्र चेश्वरगेहेषु, गृहकर्म चकार सा । तर्णकांचारयामास, तत्पुत्रोऽत्रस्तमानसः ॥ ४४ ॥ १ दाने निपुणो हस्तो यस्य, पक्षे मदनावे निपुणः शुण्डादण्डोयस्य. २ गजोपम,. For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 117