________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
यतना। सूत्रम् १२ तेजस्काययतना।
आयाविज्ञान पयाविजा अन्नं आमुसंतं वा संफुसतं वा आवीलंतं वा पविलंतं वा अक्खोडतं वा पक्खोडतं वा आयावंतं वा पयावंतं चतुर्थमध्ययन वा न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि,
षड़जीवतस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। सूत्रम् ११॥
निकायम्,
सूत्रम् ११ तथा से भिक्खूवा इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव। से उदगं वेत्यादि, तद्यथा-उदकं वा अवश्यायं वा हिमं वा महिकां। अप्कायवा करकं वा हरतर्नु वा शुद्धोदकं वा, तत्रोदक- शिरापानीयं अवश्यायः- त्रेहः हिमं-स्त्यानोदकं महिका- धूमिका करक:कठिनोदकरूपः हरतनु:- भुवमुद्भिद्य तृणाग्रादिषु भवति, शुद्धोदक- अन्तरिक्षोदकम्, तथा उदका वा कार्य उदका, वा । वस्त्रम्, उदकाता चेह गलद्विन्दुतुषाराद्यनन्तरोदितोदकभेदसंमिश्रता, तथा सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रम्, अत्र स्नेहनं स्निग्धमिति भावे निष्ठाप्रत्ययः, सह स्निग्धेन वर्तत इति सस्निग्धः, सस्निग्धता चेह बिन्दुरहितानन्तरोदितोदकभेदसंमिश्रता, एतत् किमित्याह- णामसेज त्ति नामृषेन्न संस्पृशेत् नापीडयेन प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तत्र सकृदीषद्बा स्पर्शनमामर्षणं अतोऽन्यत्संस्पर्शनम्, एवं सकृदीषदा पीडनमापीडनमतोऽन्यत्प्रपीडनम्, एवं सकृदीषद्वा स्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनम्, एवं सकृदीषद्बा तापनमातापनं विपरीतं प्रतापनम्, एतत्स्वयं न कुर्यात्तथाऽन्यमन्येन वा नामर्षयेन्न संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथाऽन्यं स्वत एव आमृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि
|| २४३॥ पूर्ववत्॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा
For Private and Personal Use Only