Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ||४३३॥
चलिका, नियुक्ति:३६९ विहारचयापदेशाधिकारक्ष।
दोषादिति । तथा उत्सन्नदृष्टाहृतं प्राय उपलब्धमुपनीतम्, उत्सन्नशब्दः प्रायो वृतौ वर्त्तते, यथा- देवा ओसन्नं सायं वेयणं वेएंति । द्वितीया किमेतदित्याह- भक्तपानं ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, भिक्खग्गाहि
विविक्तचर्या, एगत्थ कुणइ बीओ अदोसुमुवओगमिति वचनात् इत्येवंभूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगः, तथा संसृष्टकल्पेन । हस्तमात्रकादिसंसृष्टविधिना चरेद्भिक्षुरित्युपदेशः, अन्यथा पुरःकर्मादिदोषात्, संसृष्टमेव विशिनष्टि- तज्जातसंसृष्ट इत्यामगोरसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिः यतेत यत्नं कुर्यात्, अतजातसंसृष्टे संसर्जनादिदोषादित्यनेनाष्टभङ्गसूचनम्, तद्यथा-संसट्टे हत्थे संसट्टे मत्ते सावसेसे दव्वे इत्यादि, अत्र प्रथमभङ्गः श्रेयान् शेषास्तु चिन्त्या इति सूत्रार्थः ॥ ६॥ उपदेशाधिकार एवेदमाह- अमद्यमांसाशी भवेदिति योगः, अमद्यपोऽमांसाशीच स्यात्, एते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति- आरनालारिष्ठाद्यपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात्त्याज्यमिति, तदसत्, अमीषां मद्यमांसत्वायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्वतुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्गदोषात्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृ-। गमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनिकामात्रप्रक्रमात् । तथा अमत्सरी च न परसंपदेषी च स्यात्, तथा अभीक्ष्णं पुनः। अपुनः पुष्टकारणाभावे निर्विकृतिकश्च निर्गतविकृतिपरिभोगश्च भवेत्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह,
तथा अभीक्ष्णं गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये, किमित्याह- कायोत्सर्गकारी भवेत् ईर्यापथप्रतिक्रमणमकृत्वान। किश्चिदन्यत् कुर्याद्, तदशुद्धतापत्तेरिति भावः । तथा स्वाध्याययोगे वाचनाचूपचारव्यापार आचामाम्लादौ प्रयतः अतिशय
Oदेवा उत्सन्नं सातवेदनां वेदयन्ति । 0 भिक्षाग्राही एकत्र करोति द्वितीयश्च द्वयोरुपयोगम् । 0 संसृष्टो हस्तः संसृष्टं मात्रकं सावशेष द्रव्यम्। 0 तक्रे शुभेऽशुभे इत्युक्तेस्तक्रम्, आदिना दध्यादि।
For Private and Personal Use Only

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466