Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shes kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||४४०।।
३७०-३७१ वक्तव्यताशेष (टीकोपसंहार)।
छेअपावर्ग? ॥ १॥ इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा नियुक्तिः चागमः- गीअत्थो अविहारो बिइओ गीअत्थमीसिओ भणिओ। एत्तो तइअविहारो णाणुण्णाओ जिणवरेहिं ॥१॥न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिर्जायते यावजीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, 'इति जो उवएसो सोणओणामति इति एवमुक्तेन न्यायेन य उपदेशो' ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयंच ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः ।। उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदं-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'णायंमि गिण्हिअव्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थ ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेवेति, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तं- क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥ तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तं- चेइअकुलगणसंघे आयरिआणं च पवयणसुए । सव्वेसुवि तेण कयं तवसंजममुज्जमतेणं ॥१॥ इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्, तथा चागमः-सुबहुपि सुअमहीअं किं काही चरणविप्पमुक्कस्स? । अंधस्स जह।
॥४४०।।
For Private and Personal Use Only

Page Navigation
1 ... 462 463 464 465 466