Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kailassagarsur Gyarmandir
वैकालिक श्रीहारि० वृत्तियुतम् | ॥ ४३९।।
३७०-३७१ वक्तव्यताशेष:
युषमेनमवेत्य मयेदं शास्त्रं निर्बुढं किमत्र युक्तमिति निवेदिते विचारणा संघे-कालहासदोषात् प्रभूतसत्त्वानामिदमेवोपकारक- नियुक्तिः मतस्तिष्ठत्वेतदित्येवंभूता स्थापना चेति गाथार्थः ।। ३७१।। उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूदैवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति।
(टीकोस्वरूपं चैतेषामध आवश्यके सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते। इह पुनःस्थानाशून्यार्थमेते ज्ञानक्रियान- पसंहार)। यान्तर्भावद्वारेण समासतः प्रोच्यन्ते- ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं- ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चाह- णायमि गिव्हिअव्वे अगिव्हिअव्वंमि चेव अत्थम्मि। जइअव्वमेव इइ जो उवएसो सो नओ। नाम ॥१॥णायंमि'त्ति ज्ञाते सम्यक्परिच्छिन्ने 'गिण्हिअव्वे'त्ति ग्रहीतव्य उपादेये 'अगिहिअव्वे'त्ति अग्रहीतव्येऽनुपादेये। हेय इत्यर्थः, चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थ उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्य:- ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते, 'अत्थम्मि'त्ति अर्थे ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः, उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सद्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विवक्षया अभ्युदयादिरिति तस्मिन्नर्थे, 'यतितव्यमेवे'ति अनुस्वारलोपाद्यतितव्यं एवं' अनेन प्रकारेणैहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः।। इत्थं चैतदङ्गीकर्तव्यम्, सम्यग्ज्ञाते प्रवर्त्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तं- विज्ञप्तिः फलदा पुंसां, न क्रिया । फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात् ॥१॥ तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञान एव यतितव्यम्, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तं- पढमं नाणं तओ दया, एवं चिट्ठइ सच्चसंजए। अण्णाणी किं काही, किंवा णाही
||४३९।।
For Private and Personal Use Only

Page Navigation
1 ... 461 462 463 464 465 466