Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shes kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥४३७॥
सीदन
करणत्रयेणेत्यर्थः तत्रैव तस्मिन्नेव संयमस्थानावसरे धीरो बुद्धिमान् प्रतिसंहरेत् प्रतिसंहरति य आत्मानम्, सम्यग् विधि प्रतिपद्यत । द्वितीया
विविक्तचर्या, इत्यर्थः, निदर्शनमाह- आकीर्णो जवादिभिर्गुणैः, जात्योऽश्व इति गम्यते असाधारणविशेषणात्, तच्चेदं- क्षिप्रमिव खलिन ।
चूलिका, शीघ्रं कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं
सूत्रम् १०-१६ सम्यग्विधिम्, एतावताउंशेन दृष्टान्त इति सूत्रार्थः ॥ १४॥ यः पूर्वरात्रेत्याद्यधिकारोपसंहारायाह- यस्य साधोः ईदृशाः ।। विहारवर्या
विशेषोडस्वहितालोचनप्रवृत्तिरूपा योगा मनोवाक्कायव्यापारा जितेन्द्रियस्य वशीकृतस्पर्शनादीन्द्रियकलापस्य धृतिमतः संयमे सधृतिकस्य सत्पुरुषस्य प्रमादजयान्महापुरुषस्य नित्यं सर्वकालं सामायिकप्रतिपत्तेरारभ्यामरणान्तं तमाहुलॊके प्रतिबुद्धजीविनं तमेवंभूतं गुणोपाय:साधुमाहुः- अभिदधति विद्वांसः लोके प्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवनशीलम्, स एवंगुणयुक्तः सन् । जीवति संयमजीवितेन कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति सूत्रार्थः ॥ १५॥ शास्त्रमुपसंहरन्नुपदेशसर्वस्वमाह-आत्मा खल्वि ति खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि सततं सर्वकालं रक्षितव्यः पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह- सर्वेन्द्रियैः स्पर्शनादिभिः सुसमाहितेन निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयोः फलमाहअरक्षितः सन् जातिपन्थानं जन्ममार्ग संसारमुपैति- सामीप्येन गच्छति । सुरक्षितः पुनर्यथागममप्रमादेन सर्वदुःखेभ्यः शारीरमानसेभ्यो विमुच्यते विविधं- अनेकैः प्रकारैरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः॥
शास्त्रोपसंहारउपदेशसर्वस्वत।
॥४३७॥
॥ इति सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती
द्वितीया विविक्तचर्याचूलिका समाप्ता।।
For Private and Personal Use Only

Page Navigation
1 ... 459 460 461 462 463 464 465 466