Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिकं श्रीहारि०
वृत्तियुतम्
३७०-३७१ वक्तव्यताशेष (टीकोपसंहार)।
॥४३८॥
॥अथ श्रीहरिभद्रसूरिविरचितटीकोपसंहारः ।।
नियुक्तिः यं प्रतीत्य कृतं तद्वक्तव्यताशेषमाह
नि०- छहिं मासेहिं अहीअं अज्झयणमिणं तु अजमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए। ३७० ।। षभिर्मासै:अधीतं पठितं अध्ययनमिदं तु अधीयत इत्यध्ययनं- इदमेव दशवैकालिकाख्यं शास्त्रम, येनाधीतमित्याहआर्यमणकेन- भावाराधनयोगात् आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ मणकश्चेति विग्रहस्तेन, षण्मासाः पर्याय इति तस्यार्यमणकस्य षण्मासा एव प्रव्रज्याकालः, अल्पजीवितत्वात्, अत एवाह-अथ कालगतः समाधिने ति अथ उक्तशास्त्राध्ययनपर्यायानन्तरं कालगत- आगमोक्तेन विधिना मृतः समाधिना- शुभलेश्याध्यानयोगेनेति गाथार्थः ।। ३७० ।। अत्र चैवं वृद्धवादः- यथा तेनैतावता श्रुतेनाराधितं एवमन्येऽप्येतदध्ययनानुष्ठानत आराधका भवन्त्विति ।।
नि०- आणंदअंसुपायं कासी सिजंभवा तहिं थेरा । जसभहस्स य पुच्छा कहणा अविआलणा संघे ।। ३७१ ।। आनन्दाश्रुपातं अहो आराधितमनेनेति हर्षाश्रुमोक्षणं अकार्षुः कृतवन्त शय्यम्भवाः प्राग्व्यावर्णितस्वरूपाः तत्र तस्मिन् कालगते । स्थविराः श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थं बहुवचनमिति, यशोभद्रस्य च- शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा- भगवन्! किमेतदकृतपूर्वमित्येवंभूता, कथना च भगवतः- संसारस्नेह ईटशः, . सुतो ममायमित्येवंरूपा, चशब्दादनुतापश्च यशोभद्रादीनां- अहो गुराविव गुरुपुत्रके वर्त्तितव्यमिति न कृतमिदमस्माभिरिति, ॥ ४३८ ।। एवंभूतप्रतिबन्धदोषपरिहारार्थ न मया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनं च। विचारणा संघ इति शय्यम्भवेनाल्पा
For Private and Personal Use Only

Page Navigation
1 ... 460 461 462 463 464 465 466