Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 458
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। . ४३४ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यत्नपरो भवेत्, तथैव तस्य फलवत्त्वाद् विपर्यय उन्मादादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ७ ॥ किंचन प्रतिज्ञापयेत् मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद्गृहस्थम्, किमाश्रित्येत्याह- शयनासने शय्यां निषद्यां तथा भक्तपान मिति तत्र शयनं संस्तारकादि आसनं पीठकादि शय्या वसतिः निषद्या स्वाध्यायादिभूमिः तथा तेन प्रकारेण तत्कालावस्थौचित्येन भक्तपानं खण्डखाद्यकद्राक्षापानकादि न प्रतिज्ञापयेत्, ममत्वदोषात् । सर्वत्रैतनिषेधमाह- ग्रामे शालिग्रामादौ कुले वा श्रावककुलादौ नगरे साकेतादौ देशे वा मध्यदेशादौ ममत्वभावं ममेदमिति स्नेहमोहं न क्वचित् उपकरणादिष्वपि कुर्यात्, तन्मूलत्वाद्दुःखादीनामिति ।। ८ ।। उपदेशाधिकार एवाह- गृहिणी गृहस्थस्य वैयावृत्त्यं गृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तभावं न कुर्यात्, स्वपरोभया श्रेयःसमायोजनदोषात्, तथा अभिवादनं वाड्नमस्काररूपं वन्दनं कायप्रणामलक्षणं पूजनं वा वस्त्रादिभिः समभ्यर्चनं वा गृहिणो न कुर्याद्, उक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव असंक्लिष्टैः गृहिवैयावृत्त्यकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिः चारित्रस्य मूलगुणादिलक्षणस्य यतो येभ्यः साधुभ्यः सकाशात्र हानि:, संवासतस्तदकृत्यानुमोदनादिनेति, अनागतविषयं चेदं सूत्रम्, प्रणयनकाले संक्लिष्टसाध्वभावादिति सूत्रार्थः ॥ ९ ॥ ण या भेजा निउणं सहायं, गुणाहिअं वा गुणओ समं वा । इक्कोऽवि पावाई विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥ सूत्रम् १० ॥ संवच्छरं वाऽवि परं पमाणं, बीअंच वासं न तहिं वसिद्धा । सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ॥ सूत्रम् ११ ।। जो पुव्वरत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं किं मे कडं किं च मे किचसेसं, किं सक्कणिज्जं न समायरामि ? ।। सूत्रम् १२ ।। For Private and Personal Use Only द्वितीया विविक्तचर्या, चूलिका, नियुक्ति: ३६९ विहारचय |पदेशा|धिकारक्ष सूत्रम् १०-१२ | विहारचर्याविशेषोऽसीदनगुणो पायः शास्त्रो |पसंहारउप|देशसर्वस्वच । ।। ४३४ ।।

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466