Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवममध्ययन
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३९४॥
६०००) नो भावयेद् अकुशलभावनया परम्, यथाऽमुकपुरतो भवताऽहं वर्णनीय: नापि च भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकश्च सदा नटनर्तकादिषु यः स पूज्य इति सूत्रार्थः ।।१०।। किंच- गुणैः अनन्तरोदितैर्विनयादिभिर्युक्तः ।
विनयसमाधिः,
तृतीयोद्देशकः साधुर्भवति, तथा अगुणैः उक्तगुणविपरीतैरसाधुः, एवं सति गृहाण साधुगुणान् मुश्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य
सूत्रम् प्राकृतशैल्या विज्ञापयति विविधं ज्ञापयत्यात्मानमात्मना यः तथा रागद्वेषयोः समः न रागवान्न द्वेषवानिति स पूज्य इति सूत्रार्थः॥ ८-१५
विनीतस्य ११ ।। किं च- तथैवे ति पूर्ववत्, डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजित
पूज्यत्वोगहिणं वा. वाशब्दादन्यतीर्थिकं वा न हीलयति नापि च खिसयति तत्र सूयया असूयया वा सकद्दष्टाभिधानं हीलनम, पदर्शनम्। तदेवासकृत्खिसनमिति । हीलनखिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः ।। १२ ।। किं च- ये मानिता अभ्युत्थानादिसत्कारैः सततं अनवरतं शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति यथा मातापितरः कन्यां गुणैर्वयसा च संवर्य योग्यभर्तरि स्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्टा महत्याचार्यपदेऽपिस्थापयन्ति । तानेवंभूतान् गुरून्मानयति योऽभ्युत्थानादिना. मानार्हान् मानयोग्यान् तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थं विशेषणद्वयम्, स पूज्य इति सूत्रार्थः ॥ १३॥ तेषां गुरूणां अनन्तरोदितानां गुणसागराणां गुणसमुद्राणां संबन्धीनि श्रुत्वा मेधावी सुभाषितानि परलोकोपकारकाणि चरति । आचरति मुनिः साधुः पञ्चरतः पञ्चमहाव्रतसक्तः त्रिगुप्तो मनोगुप्त्यादिमान् चतुःकषायापगत इत्यपगतक्रोधादिकषायो यः सह पूज्य इति सूत्रार्थः ।। १४ ।। प्रस्तुतफलाभिधानेनोपसंहरन्नाह- गुरुं आचार्यादिरूपं इह मनुष्यलोके सततं अनवरतं परिचर्य विधिनाऽऽराध्य मुनिः साधुः, किंविशिष्टो मुनिरित्याह- जिनमतनिपुणः आगमे प्रवीण: अभिगमकुशलो लोकप्राघूर्णकादि
।।३९४।।
For Private and Personal Use Only

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466